अस्मद्युत्तमः

1-4-107 अस्मदि उत्तमः आ कडारात् एका सञ्ज्ञा उपपदे

Sampurna sutra

Up

अस्मदि उपपदे समानाधिकरणे स्थानिनि अपि उत्तमः

Neelesh Sanskrit Brief

Up

यदा अस्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समान-पदार्थस्य निर्देशः भवति, तदा अस्मद्-शब्दस्य उपस्थितौ अनुपस्थितौ चापि धातोः उत्तमपुरुषस्यैव तिङ्-प्रत्ययाः विधीयन्ते । यथा - अहं पश्यामि, किं पश्यामः, अहं दृश्ये ।

Neelesh English Brief

Up

Where a form of the word अस्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the उत्तमपुरुष प्रत्ययाs.

Kashika

Up

उत्तमपुरुषो नियम्यते। अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयुज्यमानेऽप्युत्तमपुरुषो भवति। अहं पचामि। आवां पचावः। वयं पचामः। अप्रयुज्यमानेऽपि — पचामि। पचावः। पचामः॥

Siddhanta Kaumudi

Up

तथाभूतेऽस्मद्युत्तमः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

तथाभूतेऽस्मद्युत्तमः॥

Neelesh Sanskrit Detailed

Up

<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> 1.4.101 अनेन सूत्रेण आहत्य षण्णाम् तिङ्-प्रत्ययानाम् उत्तम: इति संज्ञा भवति । एतेषाम् उत्तमसंज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति इत्यस्य नियमः अनेन सूत्रेण क्रियते । अस्मद्-शब्देन यस्य पदार्थस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः तिङ्-प्रत्ययेन अपि भवति चेत्, वाक्ये सः अस्मद्-शब्दः साक्षात् भवेत् उत न भवेत्, धातोः उत्तमसंज्ञक: तिङ्प्रत्यय: एव प्रयोक्तव्यः - इति अस्य सूत्रस्य आशयः । यथा -

  • 1. अहं पश्यामि । अस्मिन् वाक्ये अहम् इत्यनेन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । (यद्यपि अत्र अहम् इत्यनेन कर्तृकारकस्य निर्देशः न भवति, तथापि यः कर्तृसंज्ञकपदार्थः तस्य निर्देशः तु अवश्यम् एव भवति) । अपि च, पश्यामि इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि दर्शनक्रियायाः कर्तृकारकस्यैव निर्देशः कृतः अस्ति । इत्युक्ते, अत्र अस्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समानपदार्थस्य निर्देशः भवति । अतः पश्यामि इत्यत्र <<मिप्>> इति उत्तमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते ।
  • 2. किं पश्यामः । अस्मिन् वाक्ये यद्यपि वयम् इति शब्दः साक्षात् न विद्यते, तथापि सः विवक्षितः अस्ति । अनेन विवक्षितेन वयम् शब्देन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । अस्यैव पदार्थस्य निर्देशः पश्यामः इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि क्रियते । अस्यां स्थितौ, अस्मद्-शब्दस्य अनुपस्थितौ अपि अत्र धातोः मिप् इति उत्तमपुरुषस्यैव प्रत्ययः विधीयते ।
  • 3. त्वया आवाम् दृश्यावहे । अस्मिन् वाक्ये आवाम् इति शब्देन, तथा च दृश्यावहे इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन एकस्यैव पदार्थस्य (= दर्शनक्रियायाः कर्मपदस्य) निर्देशः कृतः अस्ति । अतः अत्र दृश्यावहे इत्यत्र वहि इति उत्तमपुरुषस्य प्रत्ययः प्रयुक्तः अस्ति ।
  • 4. सः मां पश्यति । अस्मिन् वाक्ये माम् इति शब्देन दर्शनक्रियायाः कर्मपदस्य निर्देशः भवति, परन्तु पश्यति इत्यत्र विद्यमान: तिङ्-प्रत्ययः तु दर्शनक्रियायाः कर्तृपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र पश्यति इत्यत्र उत्तमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते ।
  • 5. मया त्वं दृश्यसे । अस्मिन् वाक्ये मया इति शब्देन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः भवति, परन्तु दृश्यसे इत्यत्र विद्यमान: तिङ्-प्रत्ययः तु दर्शनक्रियायाः कर्मपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र दृश्यसे इत्यत्र प्रथमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते । सूत्रस्य प्रतिपदार्थः प्रकृतसूत्रे <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> 1.4.105 इत्यस्मात् सूत्रात् उपपदे, समानाधिकरणे, स्थानिनि, तथा च अपि - एतानि चत्वारि पदानि अनुवर्त्यन्ते । युष्मदि इति पदं नैव अनुवर्तते यतोहि तस्य स्थाने अस्मदि इति पदं सूत्रे स्थापितम् अस्ति । एवमेव मध्यमः इति पदं नैव अनुवर्तते यतोहि तस्य स्थाने उत्तमः इति पदं सूत्रे स्थापितम् अस्ति । एतेषां सर्वेषां पदानाम् अर्थः एतादृशः -
  • 1. उपपदे - उपपदम् इत्युक्ते तत् पदम् यत् समीपे उच्चार्यते । कस्य समीपे उच्चार्यते ? क्रियायाः समीपे उच्चार्यते इति । क्रियायाः सम्बन्धेन उच्चार्यते - इत्यर्थः ।
  • 2. अस्मदि उपपदे - अस्मदि उपपदे इति सतिसप्तमी अस्ति । अस्य अर्थः भवति - यत्र अस्मद् इति उपपदम् विद्यते तत्र । इत्युक्ते, अस्मद्-प्रातिपदिकस्य किञ्चन रूपं यत्र क्रियायाः सम्बन्धेन प्रयुज्यते तत्र किं करणीयम् इत्यस्मिन् विषये अत्र नियमः क्रियते ।
  • 3. समानाधिकरणे - समानाधिकरणे इत्यस्य अर्थः समानाधिकरणस्य अवस्थायाम्समानाधिकरणम् इत्युक्ते समान-पदार्थस्य निर्देशः । कस्य सम्बन्धेन समानपदार्थः ? तिङ्-प्रत्ययस्य सम्बन्धेन समानपदार्थः इति । इत्युक्ते, तिङ्-प्रत्ययेन यस्य कारकस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः अस्मद्-शब्देन अपि क्रियते चेत् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति ।
  • 4. स्थानिनि - स्थानिनि इत्यपि सतिसप्तमी अस्ति । अस्य अर्थः स्थानिरूपेण विद्यमाने सति (इत्युक्ते, उपस्थिते सति) इति स्वीक्रियते । स्थानिनि इत्यत्र स्थानिन् इति प्रातिपदिकम् अस्ति । अयं शब्दः अस्मदि उपपदे इत्यनेन सह अन्वेति । इत्युक्ते, यत्र अस्मद्-शब्दस्य तिङ्-प्रत्ययेन सह सामानाधिकरण्यं विद्यते, तत्र अस्मद्-शब्दः साक्षात् उपस्थितः अस्ति चेद् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति ।
  • 4. अपि - अपि इति शब्दः स्थानिनि इत्यनेन सह अन्वेति । स्थानिनि अपि इत्युक्ते उपस्थितः अस्ति चेद् अपि इति । अत्र अपि इति शब्दः समुच्चयं दर्शयति । इत्युक्ते, अनुपस्थितः अस्ति चेद् तु अवश्यमेव भवति, परन्तु उपस्थितः अस्ति चेद् अपि भवति इति अत्र अर्थः जायते ।
  • 5. उत्तमः - उत्तमः इति संज्ञा यस्य, सः प्रत्ययः (एव) विधीयते - इति अस्य अर्थः । अनेन प्रकारेण अस्मदि उपपदे समानाधिकरणे स्थानिनि अपि उत्तमः इत्यस्य समग्रः अर्थः - अस्मद् इति शब्दः यत्र क्रियायाः योगे सत् तिङ्-प्रत्ययेन निर्दिष्टस्य पदार्थस्य एव निर्देशं करोति, तत्र, अस्मद् इति शब्दस्य उपस्थितौ अनुपस्थितौ च अपि उत्तमसंज्ञकप्रत्ययाः एव भवन्ति - इति सिद्ध्यति । नियमसूत्रम् इदम् इदं सूत्रम् नियमसूत्रम् अस्ति । "अस्मदि उपपदे, समानाधिकरणे, स्थानिनि अपि" इति अवस्थायाम् "उत्तमःएव प्रत्ययः भवति, न अन्यः" - इति नियमः अनेन सूत्रेण क्रियते । यत्र तिङ्-प्रत्ययस्य अस्मद्-उपपदेन सह सामानाधिकरण्यं वर्तते, तत्र उत्तमपुरुषस्यैव प्रत्ययाः प्रयोक्तव्याः - इति अस्य अर्थः । युष्मद्-उपपदस्य अस्मद्-उपपदस्य च युगपत् सामानाधिकरण्यम् यत्र युष्मद्-उपपदस्य क्रियया सह सामानाधिकरण्यम् अस्ति तत्र <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः >> 1.4.105 इत्यनेन धातोः मध्यमपुरुषस्य प्रत्ययः विधीयते । यत्र अस्मद्-उपपदस्य क्रियया सह सामानाधिकरण्यम् अस्ति तत्र तु <<अस्मद्युत्तमः>> 1.4.105 इत्यनेन धातोः उत्तमपुरुषस्य प्रत्ययः विधीयते । यत्र द्वयोः अपि उपपदयोः क्रियया सह युगपत् एव सामानाधिकरण्यं विद्यते, तत्र परत्वात् <<अस्मद्युत्तमः>> 1.4.105 इत्यस्यैव प्रयोगः भवति, अतः तत्रापि धातोः उत्तमपुरुषस्य प्रत्ययः एव विधीयते । यथा -
  • 1. त्वं च अहं च गच्छावः अस्मिन् वाक्ये गच्छावः इत्यत्र उत्तमपुरुषसंज्ञकः वस्-प्रत्ययः प्रयुक्तः अस्ति ।
  • 2. तेन यूयं वयं च दृश्यामहे अस्मिन् वाक्ये दृश्यामहे इत्यत्र उत्तमपुरुषसंज्ञकः महिङ्-प्रत्ययः प्रयुक्तः अस्ति । यत्र वाक्ये युष्मद् तथा अस्मद् एतौ द्वौ शब्दौ विद्येते परन्तु तयोः एकेनैव क्रियापदेन सह सामानाधिकरण्यं नास्ति, तत्र तु एतादृशः विप्रतिषेधः नैव वर्तते । यथा - त्वं गच्छसि, अहं च गच्छामि इत्यस्मिन् वाक्ये त्वम्-शब्दस्य सामानाधिकरण्यम् गच्छसि इत्यनेन सह अस्ति, परन्तु अहम्-शब्दस्य सामानाधिकरण्यम् तु गच्छामि इत्यनेन सह अस्ति । अस्यां स्थितौ, गच्छसि इत्यत्र मध्यमपुरुषस्य प्रत्ययः तथा च गच्छामि इत्यत्र उत्तमपुरुषस्य प्रत्ययः प्रयुक्तः दृश्यते । ##Balamanorama <<अस्मद्युत्तमः>> - अस्मद्युत्तमः । तथाभूत इति । तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः । ##Padamanjari यत्र युष्मदस्मदी द्वे अप्युपपदे भवतस्तत्र यदि कर्तृशक्ती स्वाधारनियते विवक्ष्येते, तदा लकारोऽपि भेदेनोत्पद्यते - त्वं चाहं च पचसि, पचामि चेति। सहविवक्षायां तु द्वयोरपि शक्त्योरेको लकार उत्पद्यते। तत्र युष्मदि मध्यमः, अस्मद्यौतमो विप्रतिषेधेन - त्वं चाहं पचावः, अहं च त्वं च वृत्रहन् संयुज्यावःऽ इति। यदापि त्यदादीनां यद्यत्परमित्यस्मदः शेषस्तदापि स्यानिन्यपीति मध्यमप्राप्तौ परत्वादुतम एव भवति - आवां पचावः॥