Home
Prev 1.4.107
Next 1.4.109
शेषे प्रथमः 1-4-108 शेषे प्रथमः आ कडारात् एका सञ्ज्ञा उपपदे
Sampurna sutra Up
शेषे उपपदे समानाधिकरणे स्थानिनि अपि प्रथमः
Neelesh Sanskrit Brief Up
मध्यमपुरुषस्य उत्तमपुरुषस्य च विषयान् विहाय अन्येषु सन्दर्भेषु धातोः प्रथमपुरुषस्य तिङ्-प्रत्ययः विधीयते । यथा - सः पश्यति ।
Neelesh English Brief Up
Where a form of the word other than अस्मद् or युष्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the प्रथमपुरुष प्रत्ययाs.
Kashika Up
शेष इति मध्यमोत्तमविषयादन्य उच्यते। यत्र युष्मदस्मदी समानाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति। पचति। पचतः। पचन्ति॥
Siddhanta Kaumudi Up
मध्यमोत्तमयोरविषये प्रथमः स्यात् ।{$ {!1 भू!} सत्तायाम्$} ॥ कर्तृविवक्षायां भू तीति स्थिते ॥
Laghu Siddhanta Kaumudi Up
मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥
Neelesh Sanskrit Detailed Up
<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> 1.4.101 अनेन सूत्रेण आहत्य षण्णाम् तिङ्-प्रत्ययानाम् प्रथम: इति संज्ञा भवति । एतेषाम् प्रथम संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति इत्यस्य नियमः अनेन सूत्रेण क्रियते । वाक्ये तिङ्-प्रत्ययेन यस्य पदार्थस्य निर्देशः क्रियते तस्य पदार्थस्य निर्देशः तस्मिन्नेव वाक्ये युष्मद् -उपपदेन उत अस्मद् -उपपदेन न क्रियते चेत् , इत्युक्ते मध्यमपुरुषस्य उत्तमपुरुषस्य च प्रयोगस्य विषयः नास्ति चेत् धातोः प्रथमसंज्ञकः तिङ्प्रत्यय: एव प्रयोक्तव्यः - इति अस्य सूत्रस्य आशयः । यथा -
1. भवान् पश्यति । अस्मिन् वाक्ये पश्यति इत्यत्र विद्यमानेन तिङ् -प्रत्ययेन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति । अस्यैव पदार्थस्य निर्देशार्थम् वाक्ये पुनः युष्मद् उत अस्मद् शब्दः नैव विद्यते । अतः अस्मिन् वाक्ये पश्यति इत्यत्र <<तिप्>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते ।
2. किं पश्यति । अस्मिन् वाक्ये पश्यति इत्यत्र विद्यमानेन तिङ् -प्रत्ययेन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति । अस्यैव पदार्थस्य निर्देशार्थम् वाक्ये पुनः युष्मद् उत अस्मद् शब्दः नैव विद्यते । अतः अस्मिन् वाक्ये पश्यति इत्यत्र <<तिप्>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते ।
3. तौ त्वां मां च पश्यतः । अस्मिन् वाक्ये पश्यतः इत्यत्र विद्यमानेन तिङ् -प्रत्ययेन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति । यद्यपि वाक्ये त्वाम् इत्यत्र युष्मद्- शब्दः , तथा च माम् इत्यत्र अस्मद् -शब्दः अपि प्रयुक्तः अस्ति, तथापि एतयोः शब्दयोः दर्शनक्रियायाः कर्मपदस्य निर्देशः भवति, न हि कर्तृपदस्य । इत्युक्ते, तिङ् -प्रत्ययेन यस्य पदार्थस्य निर्देशः क्रियते तस्यैव पदार्थस्य निर्देशः एतभ्यां नैव भवति । अतः अस्मिन् वाक्ये पश्यतः इत्यत्र <<तिप्>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते ।
4. मया ते दृश्यन्ते । अस्मिन् वाक्ये दृश्यन्ते इत्यत्र विद्यमानेन तिङ् -प्रत्ययेन दर्शनक्रियायाः कर्मकारकस्य निर्देशः कृतः अस्ति । यद्यपि वाक्ये मया इत्यत्र अस्मद् -शब्दः प्रयुक्तः अस्ति, तथापि तेन दर्शनक्रियायाः कर्तृपदस्य निर्देशः भवति, न हि कर्मपदस्य । इत्युक्ते, तिङ् -प्रत्ययेन यस्य पदार्थस्य निर्देशः क्रियते तस्य पदार्थस्य निर्देशः अस्मद् -शब्देन नैव कृतः अस्ति । अतः अस्मिन् वाक्ये दृश्यन्ते इत्यत्र <<झ>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते ।
5. सः अहं च पश्यावः । अस्मिन् वाक्ये पश्यावः इत्यत्र विद्यमानः तिङ् -प्रत्ययः कर्तृपदस्य निर्देशं करोति । अस्यैव कर्तृपदार्थस्य निर्देशार्थम् वाक्ये अहम् इति अस्मद् -शब्दस्य रूपम् अपि प्रयुक्तम् अस्ति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति अपितु <<अस्मद्युत्तमः>> 1.4.107 इत्यनेन उत्तमपुरुषस्यैव प्रत्ययः प्रयुज्यते ।
6. सः त्वं च मां पश्यथः । अस्मिन् वाक्ये पश्यथः इत्यत्र विद्यमानः तिङ् -प्रत्ययः कर्तृपदस्य निर्देशं करोति । अत्र वाक्ये विद्यमानेन त्वम् इति युष्मद् -शब्दरूपेण अपि अस्यैव कर्तृपदार्थस्य निर्देशः क्रियते ।अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति अपितु <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः >> 1.4.105 इत्यनेन मध्यमपुरुषस्यैव प्रत्ययः प्रयुज्यते ।
शेषे इत्यस्य अर्थः
अस्मिन् सूत्रे प्रयुक्तः शेषे इति शब्दः <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः >> 1.4.105 तथा च <<अस्मद्युत्तमः>> 1.4.107 इत्यत्र उक्तौ विषयौ विहाय अन्यान् विषयान् दर्शयति । इत्युक्ते, तिङ्-प्रत्ययेन सह युष्मद् तथा अस्मद् एताभ्यां कस्यापि सामानाधिकरण्यं यत्र न विद्यते, तानि सर्वाणि अपि स्थलानि प्रकृतसूत्रे विद्यमानेन शेषे इति शब्देन स्वीकृतानि सन्ति । एतेषु सर्वेषु अपि स्थलेषु धातोः प्रथमपुरुषस्यैव प्रत्ययाः भवन्ति - इति अस्य सूत्रस्य आशयः अस्ति ।
किञ्च, शेषे इत्यनेन (युष्मद्-भिन्नस्य अस्मद्-भिन्नस्य च) सन्दर्भस्य निर्देशः क्रियते (न हि निमित्तस्य), अतः इयम् विषयसप्तमी अस्ति इति स्वीक्रियते ।
##Balamanorama
<<शेषे प्रथमः>> - शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः । तदाह — मध्यमोत्तमयोरविषय #इति । 'त्वमहं च पचाव' इत्यत्र तु परत्वादुत्तमपुरुष एव न तु मध्यमः ।देवदत्तस्त्वं च पचथ॑ इत्यत्रापि न प्रथमपुरुषः, युष्मदस्सत्वेन शेषत्वाऽभावादित्यलम् । भू सत्तायामिति । 'वर्तते' इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्रभू॑इत्येव गणे पाठः । अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न क्रिया, तथापि आत्मधारणं सत्तेत्युच्यते । स्वरूपेणाऽवस्थानमिति यावत् । कर्तृविवक्षायामिति । वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याऽभावात् प्रथमपुरुषत्रिके, तत्रापि कर्तुरेवकत्वविवक्षायां तिपि सति, भू-तीति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः ।
##Padamanjari
उपपद इति निवृतम्। शेष इति विषयसप्तमी, न पुनः परत इति तदाह - शेष इति। मध्यमोतमविषयादन्य उच्यत इति। अन्यो विषय इत्यर्थः। यत्र युष्मदस्मदी समानाधिकरणे न स्तस्तत्र शेष इत्यनेन युष्मदस्मदोरभावः शेषः, न पुनरन्यसद्भाव इति दर्शयति। किं सिद्धं भवति? त्वं च देवदतश्च पचथः, अहं च देवदतश्च पचावः, त्वं चाहं च देवदतश्च पचाम इति। अत्र यद्यपि युष्मदस्मदोरन्यस्य च यः समुदायः स युष्मदस्मद्भ्यामन्यः, तथापि युष्मदस्मदी तावत्स्त इति तत्सद्भावनिमिते स्यादेव प्रथमः। यदाह - तत्र युष्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति॥