Home
Prev 1.4.104
Next 1.4.106
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1-4-105 युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः आ कडारात् एका सञ्ज्ञा
Sampurna sutra Up
युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः
Neelesh Sanskrit Brief Up
यदा युष्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समान-पदार्थस्य निर्देशः भवति, तदा युष्मद्-शब्दस्य उपस्थितौ अनुपस्थितौ चापि धातोः मध्यमपुरुषस्यैव तिङ्-प्रत्ययाः विधीयन्ते । यथा - त्वं पश्यसि, किं पश्यसि, त्वं दृश्यसे ।
Neelesh English Brief Up
Where a form of the word युष्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the मध्यमपुरुष प्रत्ययाs.
Kashika Up
<<लस्य>> ३.४.७७ इत्यधिकृत्य सामान्येन तिबादयो विहिताः, तेषामयं पुरुषनियमः क्रियते। युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि — पचसि। पचथः। पचथ॥
Siddhanta Kaumudi Up
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥
Laghu Siddhanta Kaumudi Up
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः॥
Neelesh Sanskrit Detailed Up
<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> 1.4.101 अनेन सूत्रेण आहत्य षण्णाम् तिङ्-प्रत्ययानाम् मध्यम: इति संज्ञा भवति । एतेषाम् मध्यम संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति इत्यस्य नियमः अनेन सूत्रेण क्रियते । युष्मद् -शब्देन यस्य पदार्थस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः तिङ्-प्रत्ययेन अपि क्रियते चेत्, वाक्ये सः युष्मद् -शब्दः साक्षात् भवेत् उत न भवेत्, धातोः मध्यमसंज्ञक: तिङ्प्रत्यय: एव प्रयोक्तव्यः - इति अस्य सूत्रस्य आशयः । यथा -
1. त्वं पश्यसि । अस्मिन् वाक्ये त्वम् इत्यनेन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । (यद्यपि अत्र त्वम् इत्यनेन कर्तृकारक स्य निर्देशः न भवति, तथापि यः कर्तृसंज्ञकपदार्थः तस्य निर्देशः तु अवश्यम् एव भवति) । अपि च, पश्यसि इत्यत्र विद्यमानेन तिङ् -प्रत्ययेन अपि दर्शनक्रियायाः कर्तृकारकस्यैव निर्देशः कृतः अस्ति । इत्युक्ते, अत्र युष्मद् -शब्देन तथा च तिङ् -प्रत्ययेन समानपदार्थस्य निर्देशः भवति । अतः पश्यसि इत्यत्र सिप् इति मध्यमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते ।
2. किं पश्यथ । अस्मिन् वाक्ये यद्यपि यूयम् इति शब्दः साक्षात् न विद्यते, तथापि सः विवक्षितः अस्ति । अनेन विवक्षितेन यूयम् शब्देन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । अस्यैव पदार्थस्य निर्देशः पश्यथ इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि क्रियते । अस्यां स्थितौ, युष्मद् -शब्दस्य अनुपस्थितौ अपि अत्र धातोः सिप् इति मध्यमपुरुषस्यैव प्रत्ययः विधीयते ।
3. मया युवाम् दृश्येथे । अस्मिन् वाक्ये युवाम् इति शब्देन, तथा च दृश्येथे इत्यत्र विद्यमानेन आथाम् इति प्रत्ययेन एकस्यैव पदार्थस्य (= दर्शनक्रियायाः कर्मपदस्य) निर्देशः कृतः अस्ति । अतः अत्र दृश्येथे इत्यत्र <<आथाम्>> इति मध्यमपुरुषस्य प्रत्ययः प्रयुक्तः अस्ति ।
4. सः त्वां पश्यति । अस्मिन् वाक्ये त्वाम् इति शब्देन दर्शनक्रियायाः कर्मपदस्य निर्देशः भवति, परन्तु पश्यति इत्यत्र विद्यमान: तिङ् -प्रत्ययः तु दर्शनक्रियायाः कर्तृपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र पश्यति इत्यत्र मध्यमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते ।
5. त्वया अहं दृश्ये । अस्मिन् वाक्ये त्वया इति शब्देन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः भवति, परन्तु दृश्ये इत्यत्र विद्यमान: तिङ् -प्रत्ययः तु दर्शनक्रियायाः कर्मपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र दृश्ये इत्यत्र मध्यमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते ।
सूत्रस्य प्रतिपदार्थः
1. उपपदे - उपपदम् इत्युक्ते तत् पदम् यत् समीपे उच्चार्यते । कस्य समीपे उच्चार्यते ? क्रियायाः समीपे उच्चार्यते इति । क्रियायाः सम्बन्धेन उच्चार्यते - इत्यर्थः ।
2. युष्मदि उपपदे - युष्मदि उपपदे इति सतिसप्तमी अस्ति । अस्य अर्थः भवति - यत्र युष्मद् इति उपपदम् विद्यते तत्र । इत्युक्ते, युष्मद् -प्रातिपदिकस्य किञ्चन रूपं यत्र क्रियायाः सम्बन्धेन प्रयुज्यते तत्र किं करणीयम् इत्यस्मिन् विषये अत्र नियमः क्रियते ।
3. समानाधिकरणे - समानाधिकरणे इत्यस्य अर्थः समानाधिकरणस्य अवस्थायाम् । समानाधिकरणम् इत्युक्ते समान-पदार्थस्य निर्देशः । कस्य सम्बन्धेन समानपदार्थः ? तिङ्-प्रत्ययस्य सम्बन्धेन समानपदार्थः इति । इत्युक्ते, तिङ् -प्रत्ययेन यस्य कारकस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः युष्मद् -शब्देन अपि क्रियते चेत् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति ।
4. स्थानिनि - स्थानिनि इत्यपि सतिसप्तमी अस्ति । अस्य अर्थः स्थानिरूपेण विद्यमाने सति (इत्युक्ते, उपस्थिते सति ) इति स्वीक्रियते । स्थानिनि इत्यत्र स्थानिन् इति प्रातिपदिकम् अस्ति । अयं शब्दः युष्मदि उपपदे इत्यनेन सह अन्वेति । इत्युक्ते, यत्र युष्मद् -शब्दस्य तिङ् -प्रत्ययेन सह सामानाधिकरण्यं विद्यते, तत्र युष्मद् -शब्दः साक्षात् उपस्थितः अस्ति चेद् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति ।
4. अपि - अपि इति शब्दः स्थानिनि इत्यनेन सह अन्वेति । स्थानिनि अपि इत्युक्ते उपस्थितः अस्ति चेद् अपि इति । अत्र अपि इति शब्दः समुच्चयं दर्शयति । इत्युक्ते, अनुपस्थितः अस्ति चेद् तु अवश्यमेव भवति, परन्तु उपस्थितः अस्ति चेद् अपि भवति इति अत्र अर्थः जायते ।
5. मध्यमः - मध्यमः इति संज्ञा यस्य, सः प्रत्ययः (एव) विधीयते - इति अस्य अर्थः ।
अनेन प्रकारेण युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः इत्यस्य समग्रः अर्थः - युष्मद् इति शब्दः यत्र क्रियायाः योगे सत् तिङ् -प्रत्ययेन निर्दिष्टस्य पदार्थस्य एव निर्देशं करोति, तत्र, युष्मद् इति शब्दस्य उपस्थितौ अनुपस्थितौ च अपि मध्यमसंज्ञकप्रत्ययाः एव भवन्ति - इति सिद्ध्यति ।
नियमसूत्रम् इदम्
इदं सूत्रम् नियमसूत्रम् अस्ति । "युष्मदि उपपदे, समानाधिकरणे, स्थानिनि अपि" इति अवस्थायाम् "मध्यमः एव प्रत्ययः भवति, न अन्यः " - इति नियमः अनेन सूत्रेण क्रियते । यत्र तिङ्-प्रत्ययस्य युष्मद्-उपपदेन सह सामानाधिकरण्यं वर्तते, तत्र मध्यमपुरुषस्यैव प्रत्ययाः प्रयोक्तव्याः - इति अस्य अर्थः ।
##Balamanorama
<<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> - युष्मदि । उपोच्चारितं पदमुपपदम् । युष्मदि समीपोच्चारिते सतीत्यर्थः । समानमेकमधिकरणं वाच्यं यस्येति विग्रहः । सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम्,लः परस्मैपद॑मित्यतस्तदनुवृत्तेः । तथा च फलितमाह — तिङ्वाच्यकारकवाचिनि युष्मदीति । स्थानं — प्रसङ्गोऽस्यास्तीति स्थानी, तस्मिन् । प्रसक्ते सतीत्यर्थः । प्रसङ्गश्च तदर्थावगतौ सत्यां वक्रा अप्रयोग एव भवति । तथा चस्थानिनी॑त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थं बोधयति सतीत्यर्थः पर्यवस्यति । तदाह — अप्रयुज्यमान इति ।स्थानिनी॑त्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात् । ततश्च राम पाहीत्यादावव्याप्तिः स्यात् । अपिना लब्धमाह — प्रयुज्यमानेऽपीति ।युष्मद्युपपदे स्थानिनी॑त्येवोक्तौ राम त्वं पाहीत्यादौ युष्मत्प्रयोगे मध्यमो न स्यादतोऽपिग्रहणमिति भावः । अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात् ।भवानागच्छती॑त्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात्, भवच्छब्दस्य तु स्वभावेन संबोध्याऽसंबोध्यसादारणत्वादित्यलम् ।
##Padamanjari
'लस्य तिबादयः' इत्यनेनैकवाक्यतामापन्नेनानेन तिबादीनां विशिष्टविधानम्, उत विहितानां तिबादीनां भिन्नेनानेन वाक्येन नियमः? इति संशये नियम इत्याह - लस्येत्यधिकृत्येति। विशिष्टविधाने त्वितरेतराश्रयं स्यात् - सतां तिबादीनां प्रथमादिसंज्ञा, संज्ञायां च तिबादयो भाव्यन्त इति। स पुनर्नियम उपपदनियमो वा स्याद् - युष्मदि मध्यम एव अस्मद्यौतम एव, शेषे प्रथम एवेति; पुरुषनियमो वा - युष्मद्येव मध्यमः, अस्मद्येवोतमः, शेष एव प्रथम इति। तत्राद्ये पक्षे कुर्वंस्त्वं कुर्वाणस्त्वमिति युष्मदि शतृशानचौ च न स्याताम्, तृजादयश्च न स्युः - कर्ता त्वं कारकस्त्वमिति? नैष दोषः; एतावान् विषयो युष्मदस्मदुपपदं शेषश्च सर्वश्चासौ पुरुषेषु नियतः। उच्यन्ते च तृजादयस्ते वचनाद्भविष्यन्ति। तुल्यजातीयस्य च नियनेन व्यावृत्तिः - युष्मदि मध्यम एव, न प्रथमोतमौ; अस्मद्यौतम एव, न प्रथममध्यमौ; शेषे प्रथमोतमाविति। एवं तर्हि तिबादिसूत्रे विधीयमानत्वात् प्राधान्यातेषामेव नियमो युकः, शेषग्रहणाच्चोपपदनियमे हि युष्मदस्मदी नियते, पुरुषा अनियताः, शेषश्चानियतः। तत्र प्रथम इत्येतावदप्युच्यमानं नियमार्थं विज्ञायते, तत्र च नियमान्तरस्यासंभवात् प्रथम एवेति नियमः; यत्र च प्रथमाप्रथमप्रसङ्गस्तत्रैवंविधो नियमः कर्तव्यः; शेष एव च तथा प्रसङ्ग इति तत्रैव नियमो भविष्यति, किं शेषग्रहणेन! पुरुषनियमे तु मध्यमोतमौ नियतौ युष्मदस्मदी वा नियते, प्रथमश्च तत्र युष्मदस्मदोरपि प्रथमप्रसङ्गो शेष एव प्रथम इत्येवं प्रथमनियमः कर्तव्यः। न चान्तरेण शेषग्रहणमेवंनियमः शक्यते कर्तुमिति कर्तव्यमेव शेषग्रहणम्। अतः शेषग्रहणम्। सूत्रकारस्यापि पुरुषनियम एवाभिप्रेत इति तमेवाश्रयति - तेषामयं पुरुषनियमः क्रियत इति। तेषामित्युद्भूतावयवभेदस्तिबादिसमुदाय उच्यते, पुरुषापेक्षयाऽवयवषष्ठी। तेषां तिबादीनामवयवो यो मध्यमपुरुषस्तस्योपपदनियमः क्रियत इत्यर्थः, सापेक्षस्यापि पुरुषशब्दस्य गमकत्वात् समासः। अथ वा तेषामिति कर्मणि षष्ठी, पुरुषद्वारको नियमः पुरुषनियमः, पुरुषद्वारेण ते नियम्यन्त इत्यर्थः। उपोच्चरितं तदमुपपदम्, शाकपार्थिवादित्वादुतरपदलोपी समासः, उपशब्दः सामीप्ये, ततश्च व्यवहिते न भवितव्यमिति शङ्गामपनयति। व्यवहिते चेति। समीप इत्येव सिद्धे उपपदग्रहणादापेक्षिकस्यापि सामीप्यस्य ग्रहणम्। व्यवहितमपि च व्यवहिततरापेक्षया संनिकृष्टमिति भावः। उपपदग्रहणं तु पूर्वभूतेऽपि युष्मदि यथा स्याद्, अन्यथा'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परभूते एव स्यात्। ननु यथा स्थानिन्यपीति वचनात् सर्वथाऽप्रयुज्यमानेऽपि भवति तथा पूर्वप्रयोगेऽपि परभूतस्याप्रयोगात् स्थानिनीति भविष्यति, नैतदस्ति; सप्तमीनिर्देशात् प्रयोगपक्षे परभूत एव स्यात्। समानाभिधेय इति। अधिकरणशब्दोऽभिधेयवचन इति दर्शयति। पुनः समानाभिधेये लकारेण नियिम्यमानेन वा पुरुषेणः त्रिविधं चाभिधेयं लकाराणाम्भावः कर्म कर्ता च, तत्र द्रव्यवाचिनोर्युष्मदस्मदोर्भाववाचिना लान्तेन सामानाधिकरण्यासंभवात् कर्तृकर्मणोरेव ग्रहणमित्याह - तुल्यकारक इति। तुल्यमेकं कारकं यस्य ततथोक्तम्, स्थानिन्यपीति स्थानशब्द प्रसङ्गवाची, स्थानमस्यास्तीति स्थानी। तत्र च प्रयुज्यमानस्याप्रयुज्यमानस्य च प्रसङ्गोऽस्ति। उच्यते चेदं स्थानमस्यास्तीति, तत्र सामर्थ्यादवधारणं विज्ञायते - प्रसङ्ग एव यस्य, न तु प्रयोग इति। यद्वा स्वनिकायप्रसिद्धिरेषा - यस्य स्थाने आदेशो विधीयते स स्थानीति। इह त्वप्रयुज्यमानता साद्दश्यात् युष्मदि प्रयुज्यते, सर्वथा स्थानिन्यपीत्यस्याप्रयुज्यमानेऽपीत्यर्थः। अपिशब्दात्प्रयुज्यमानेऽपि, तदाह - स्थानिन्यपीत्यादिना। स्थानिन्यपीति कोऽर्थः? प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपीत्यर्थः। उपपदग्रहणप्राप्तस्य चार्थस्यापिशब्दोऽनुवादः। समानाधिकरण इति किम्? त्वया गम्यत इत्यत्र मा भूत्। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते, इह च अतित्वं पचति अत्यहं पचतीत्यत्रातिक्रान्तप्रधाने समासे युष्मदस्मदोरसामानाधिकरण्यात् प्रथम एव भवति, इह त्वीषदसमाप्तस्त्वं त्वत्कल्पः पचसि, मत्कल्पः पचामीति कालान्तरद्दष्टगुणरहितो युष्मदस्मदर्थ एव त्वत्कल्पमत्कल्पशब्दाभ्यामुच्यत इति मध्यमोतमौ भवतः, तत्सद्दशपदार्थान्तराभिधाने तु प्रथमः, तथा त्वतरः पचसि, मतरः पचामि, परमत्वं पचसि,परमाहं पचामीति, कालान्तराद्दष्टगुणातिशयविशिष्टो युष्मदस्मदर्थ एवोच्यते इति भवत्येव। एवं च युष्मदर्थे मध्यमः, अस्मदर्थ उतम इतीयता सिद्धं युष्मदस्मदर्थे चेल्लकार उत्पन्नस्तर्ह्येव मध्यमोतमावित्यर्थः, तथा तु न कृतमित्येव। इह चात्वं त्वं संपद्यत इति त्वद्भवतीति भवति; प्रकृतेरेव विकाररूपेण सम्पतौ कर्तृत्वात्। एतच्च' आन्महतः' इत्यत्रोपपादयिष्यामः। तथा च मन्त्रे -'यदग्ने स्यामहं त्वं त्वं वास्या अहम्' इति, अहं त्व स्यां त्वं वाहं स्याम्ऽ इति प्रकृत्याश्रयः पुरुषो द्दश्यते। इह भवान्पचत्विति युष्मदर्थप्रतीतेः स्थानिन्यपीति मध्यमः प्राप्नोति, न वा युष्मदर्थत्वात्, अलिङ्गः सम्बोधनविषयश्च युष्मदर्थः। भवदर्थस्तु लिङ्गवान् न च सम्बोधनैकविषयः। यथैव हि माणवकाधीष्टेत्यभिमुखीभावो गम्यते, एवं त्वमधीष्वेत्यपि। तथा च युष्मदः सर्वत्रैव संबोधने प्रथमा आमन्त्रिताद्यौदातत्वं च भवति, पदात्परत्वे च निघात इति केचिदाहुः। उक्तं च - सम्बोधनार्थः सर्वंन्न मध्यमे कैश्चिदिष्यते। तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः॥ युष्मदर्थस्य सिद्धत्वान्नियतावाद्यौदातता। युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ इति। सत्यम्; सम्बोधनैकविषयो युष्मच्छब्दः, प्रथमा तु शुद्धैव; अभिमुखीभावेऽस्यापि प्रातिपदिकार्थ एवान्तर्भावात्, यत्र त्वनन्तर्भावः, तत्र तदभिद्योतनाय सम्बोधने चेति प्रथमा विधीयते स्वरोपि; अन्यथा युवं हि स्थः स्वर्पती, यूयं यात स्वस्तिभिः, हये देवा यूयमिदापयस्थऽ इति पादादावप्यन्तोदातत्वं पदात्परत्वेऽप्यनिघातः। तदेवं भवच्छब्दस्यासम्बोधनविषयत्वाल्लिङ्गवत्वाच्चायुष्मदर्थत्वाद् मध्यमो न भवतीति स्थितम्॥