आदितश्च

7-2-16 आदितः च न इट् वशि निष्ठायाम्

Kashika

Up

index: 7.2.16 sutra: आदितश्च


आदितश्च धतोर्निष्ठायम् इडागमो न भवति। ञिमिदा मिन्नः। मिन्नवान्। ञिक्ष्विदा क्ष्विण्णः। क्ष्विण्णवान्। ञिष्विदा स्विन्नः। स्वन्नवान्। कारोऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः। योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोः इत्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्याम् यस्य विभाषा 7.2.15 इति प्रतिषेधो भविष्यति? ज्ञापनार्थम् एतत्। ज्ञापयति यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः इति। तेन विभाषा गमहनविदविशाम् 7.2.68 इत्यत्र विदेर्लाभार्थस्य विभाषा इति ज्ञानार्थस्य प्रतिषेधो न भवति। विदितः। विदितवान्।

Siddhanta Kaumudi

Up

index: 7.2.16 sutra: आदितश्च


आकारेतो निष्ठाया इण्न स्यात् ॥

Balamanorama

Up

index: 7.2.16 sutra: आदितश्च


आदितश्च - आदितश्च । निष्ठाया इण्न स्यादिति । 'श्वीदितः' इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तते इति भावः । ति च । 'चरफलोश्चे' ति सूत्रानुवृतिंत मत्वाह — चरलोरिति । अत उत्स्यादिति । 'उत्परस्याऽतः' इत्यतस्तदनुवृत्तेरिति भावः । कितीति ।दीर्घ इणः किती॑त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात् । कथं तर्हीति । प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः । समाधत्ते — फुल्लेति । ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह — सूत्रं त्विति । उत्फुल्लसंफुल्ल्योरिति ।निष्ठातस्य लत्वनिपातन॑मिति शेषः । सोपसर्गार्थं वचनम् ।

Padamanjari

Up

index: 7.2.16 sutra: आदितश्च


आश्वस्तः, वान्त इति । भाष्यवार्तिकयोरनुक्तमपि प्रयोगबाहुल्यादुक्तम् । योगविभागकरणं किमिति । योगविभाग एव तावद्दोषः । अपि च एकयोगत्वे चकारो न कर्तव्यो भवतीति प्रश्नः । एवं चोतरग्रन्थे चकारो न पठितव्यः । पठ।ल्मानस्तु अनुक्तसमुच्चयार्थे व्याख्येयः । कथं पुनरेक्रयोगत्वे भावादिकर्मंभ्यामन्यत्र प्रतिषेधः सिद्धः तत्राह - अन्यत्रेति । यदुणधेरिति ।उपाधिरभिधेयादिर्भेदकः । यद्यौपाधीनां भेदकत्वं न स्यात्, योगविभागोऽनर्थकः स्यात् । भेदकत्वे तु तेषां भावादिकर्णणोर्विकल्पविधानात्कर्तृकर्मणोः प्रतिषेधो न स्यादिति तदर्थो योगविभागः कर्तव्यः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तेनेति । लाभार्थस्य विभाषेति । अत्र हेतुर्वक्ष्यते । यदि तर्ह्युपाधिर्भेदकः, ततः उदितो वा इति क्त्वाप्रत्यये भाववाचिनि विकल्प इति निष्ठायामपि भाव एव प्रतिषेधः स्यात्, नार्थान्तरे । शब्देनाश्रीयमाणो ह्युपाधिर्भेदकः । न च उदितो वा इत्यत्र भाववाचित्वं शब्देनाश्रितम् । तथा च तेन निर्वृतम्, निर्वृतेऽक्षद्यौउतादिभ्यः इत्यादेरुपपतिः ॥