सहयुक्तेऽप्रधाने

2-3-19 सहयुक्ते अप्रधाने अनभिहिते तृतीया

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सहार्थेन युक्तेऽप्रधाने तृतीया विभक्तिर्भवति। पुत्रेण सहागतः पिता। पुत्रेण सह गोमान्। पितुरत्र क्रियादिसंबन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्। सहार्थेन योगे तृतीयाविधानात् पर्यायप्रयोगेऽपि भवति। पुत्रेण सार्धमिति। विनापि सहशब्देन भवति। <<वृद्धो यूना०>> १.२.६५ इति निदर्शनात्। अप्रधान इति किम्? शिष्येण सहोपाध्यायस्य गौः॥

Siddhanta Kaumudi

Up

सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धो यूना <{SK931}> इत्यादिनिर्देशात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सहयुक्तेऽप्रधाने>> - सहयुक्ते । 'पृथग्विनानानाभिः' इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह — सहार्थेनेति । पुत्रेणेति । पितुरत्रागमनक्रियासंबन्धः शाब्दः, पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याऽप्राधान्यम् । यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात्तृतीया सिद्धा तथापि 'पुत्रेण सह स्थूल' इत्याद्येवास्य मुख्योदाहरणमिति भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयोजनमाह — एवं साकमिति । ननुपुत्रेणागतः पिते॑त्यत्र सहादिशब्दाऽभावात्कथं तृतीयेत्यत आह — विनापीति । वृद्धो यूना तल्लक्षणश्चेदि॑ति सूत्रे सहादिशब्दाऽभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः ।

Padamanjari

Up

सहयुक्तेऽप्रधाने॥ क्रियागुणद्रव्यैर्द्वयोः सम्बन्धे सति सहशब्दस्य प्रयोगो भवति, अतः'पुत्रेण सहगतः पिताः' इत्यादीनि क्रियादिसम्बन्धे यथाक्रममुदाहणान्युपन्यस्तानि। नन्वत्र सर्वतः सहार्थस्वभावादेव पितुः पुत्रस्य वा गमनादिना सम्बन्धः प्रतीयते, तत्कुतः पितुः प्राधान्यम्? केचिदाहुः - यस्य क्रियादिसम्बन्धो विशिष्टकालः प्रज्ञातः स यदान्यस्याप्रज्ञातविशिष्टकालक्रियासम्बन्धस्य तत्प्रतिपादनार्थमुपादीयते, यथा - ठयं पुरुषः कदागतःऽ इत्यपेक्षायाम् राज्ञा सहागतःऽ इति पुरुषागमनं विषिष्टकालमुपपादयितुं वाक्यं प्रवर्तत इति पुरुषस्य प्राधान्यम्, राज्ञस्तूपलक्षणत्वेनोपातत्वादप्राधान्यमिति। एवं तु'भृत्यैः सह राजागतः' इत्यत्र न स्याद्, न हि भृत्यागमनं प्रसिद्वकालं येन तत्कालत्वं राजागमनस्य प्रतिपाद्येत। यत्र चोभयोरप्यज्ञातक्रियादिसम्बन्धस्तत्रापि न स्यात् - पुत्रेण सहागतः पितेति। तस्माद्वक्तव्यमप्राधान्यमत आह - पितुरत्रेत्यादि। पूर्वं प्रज्ञातोऽप्रज्ञातो वा यस्य क्रियादिसम्बन्धः शब्देनोच्यते तस्य प्राधान्यम्। यस्य तु सहार्थान्यथानुपपत्या प्रतीयते तस्याप्रधान्यम्। कस्य तुनः शब्देनोच्यते? कस्य वा प्रतोयते? यस्य विवक्ष्यते। एतदुक्तं भवति - द्वयोस्तावत्क्रियासम्बन्धे सति सहशब्दस्य प्रयोगः, तत्र यदा द्वयोरपि क्रियादिसम्बन्धः शब्देनोच्यते - सहागतौ पितापुत्राविति, तदा द्वयोरपि प्राधान्यान्न भवति; यदा त्वेकस्य क्रियादिसम्बन्धं शब्देन प्रतिपिपादयिषत्यपरस्य सहार्थान्यथानुपपत्या तदा तस्याप्राधान्यातद्वाचिनस्तृतीयेति। एवं च कृत्वा सह शाखया प्रस्तरं प्रहरतीति यद्यपि प्रस्तरस्य प्रहरणसम्बन्धः प्रज्ञातः, सूक्तवाकेन प्रस्तरं प्रहरतीति, शाखायास्त्वज्ञातः; तथाप्युक्तेन न्यायेन शाखाशब्दातृतीया सिद्ध्यतीति विभक्तिव्यत्यासो न वाच्यः। ननु पुत्रेण सहागत इत्यादौ पितुरेव कर्तुः क्तादिभिरभिधानम्, न त्वप्रधानस्य पुत्रादेस्तस्यापि तु सहार्थसामर्थ्यात्कर्तृत्वं प्रतीयत - इत्यनभिहिते कर्तृकरणयोरिति तृतीया सिद्धा। इह तर्हि पुत्रेण सहागमनं पितुरिति'कर्तृ कर्मणोः कृति' इति षष्ठी प्राप्नोति, इह च तिलैः सह माषान्वपति तिलान्माषान्वपतीत्यर्थप्रतीतेर्द्धितीया प्राप्नोति, इह च पुत्रेण सह स्थूलः, पुत्रेण सह गोमानिति द्रव्यगुणसम्बन्धप्रतिपादन एव तात्पर्थमिति क्रियागन्धस्यैवाभअवात्कर्तृगन्धोऽपि नास्तीत्यारभ्यमेवावश्यं सूत्रम्। सहार्थेन योगे विधानादिति। युक्तग्रहणादर्थग्रहणं लभ्यते, अन्यथा'सहे प्रधाने' इत्येव वाच्यं स्यात्। विनापि सहशब्देन वृद्धो यूनोति निपातनादिति क्वचित्पठ।ल्ते। इहाप्रधानवचनं प्रधाननिवृत्यर्थ क्रियते, पितुस्तृतीया मा भूदिति; तत्र प्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वात्प्रथमा भविष्यति, नार्थोऽप्रधानवचनेनेति मन्यमानः पृच्छति - ऊ प्रधान इति किमिति। शिष्येण सहोपाध्यायस्य गौरिति। यथात्राप्रधाने षष्ठीविषये तृतीया, एवं प्रधानेऽपि स्यादिति मन्यते। अत्राहुः - यथा ग्रामं न गच्छतीत्यादौ ग्रामगमनयोः पूर्वमभिसम्बन्धः प्रश्चान्नञा प्रति षिध्यते, एवमुपाध्यायस्य पूर्वं गवा सम्बन्धः पश्चातत्सम्बन्धविषिष्टस्य गोः सहार्थेन योगः; अन्यथा कस्य सहत्वं प्रतिपाद्येत, अतो गवा सम्बन्धस्यान्तरङ्गत्वा दुपाध्यायात् षष्ठी भविष्यतीति नार्थ एतेन॥