तृन्

3-2-135 तृन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु भुवश्च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सर्वधातुभ्यस्तृन् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। नकारः स्वरार्थः। तच्छीले तावत् — कर्ता कटान्। वदिता जनापवादान्। तद्धर्मणि — मुण्डयितारः श्राविष्ठायना भवन्ति वधूमूढाम्। अन्नमपहर्तार आह्वरका भवन्ति श्राद्धे सिद्धे। उन्नेतारस्तौल्वलायना भवन्ति पुत्रे जाते । तत्साधुकारिणि — कर्ता कटम्। गन्ता खेटम्॥ तृन्विधावृत्विक्षु चानुपसर्गस्य॥ होता॑। पोता॑। अनुपसर्गस्येति किम्? उ॒द्गा॒ता। प्र॒ति॒ह॒र्ता। तृजेव भवति। स्वरे विशेषः॥ नयतेःषुक् च॥ नेष्टा॑॥ त्विषेर्देवतायामकारश्चोपधाया अनिट्त्वं च॥ त्वष्टा॥ क्षदेश्च नियुक्ते॥ क्षत्ता। क्वचिदधिकृत उच्यते॥ छन्दसि तृच्च॥ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्यः॑ (मा०सं० १६.२६)। स्वरे विशेषः॥

Siddhanta Kaumudi

Up

कर्ता कटान् ॥

Laghu Siddhanta Kaumudi

Up

कर्ता कटान्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तृन्>> - तृन् । धातोस्तृन्प्रत्ययः स्यात्तच्छीलादिषु कर्तृषु । तच्छीले उदाहरति — कर्ता कटमिति । कटकरणक्रियाशील इत्यर्थः ।न लोके॑ति षष्ठीनिषेधः,न लोके॑ति सूत्रेतृ॑न्नित्यनेन 'लटः शत' इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहारश्रयणात् । तद्धर्मणि यथा — मुण्डयितारः श्राविष्ठायना भवन्ति ऊढां वधूम् । श्राविष्ठायना नाम देशविशेषीया वधूमुण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः । तत्साधुकारिणिकर्ता कट॑मित्येवोदाहरणम् ।कटं साधु करोतीत्यर्थः ।

Padamanjari

Up

तृन्॥ मुण्डयितार इति। श्राविष्ठायनानां गोत्रविशेषाणामेष कुलधर्मः। अपहर्तार इति। अह्वरदेशे भवा आह्वरकाः, रोपधेतोः प्राचाम्ऽ इति वुञ्, तेषामेव देशधर्मः। श्राद्धे सिद्धेः। निर्वृते। उन्नेतार इति। अयमपि कुलधर्मः। तृन्विधाविति। अताच्छील्याद्यर्थ आरम्भः। तृजेव भवतीति। तृन्तृचौ'शंसिक्षदादिभ्यः संज्ञायां चानिटौ' इत्यनेन। स्वरे विशेष इति। तृनि'तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरस्स्यात्, तचि तु कृत्स्वरो भवति।'तृन्तृचौ' इत्यस्यैव विषयव्यवस्थार्थमिदम्। अनुपसर्गेभ्यस्तृन्, सोपसर्गेभ्यस्तृजिति प्रपञ्चार्थ वा, तथा च प्रशास्तेति। तृच्यपीण्नास्ति। नयतेः षुक् चेति। गुणे कृते षुग् वेदितव्यः, प्रकृत्यन्तरं वा; नेषति, नेषतुः, नेषिथेति दर्शनात्। अनिट्त्वं चोत। त्विषः स्वत एवानिट्त्वादुक्तवक्ष्यमाणसर्वोपसंख्यानशेषभूतमिदम्। तेन पोता, क्षतेत्यनिटत्वं भवति। क्षदेरिति। धातुष्वपठितोऽपि क्षदिरस्मादेव वचनादभ्युपगम्यते, आत्मनेपदी चायम्। उक्षाणा वा वहतं वाक्षदन्त इति बह्वृचब्राह्मणप्रयोगात्। क्वचिदधिकृत इति। द्वाररक्षणे, रथप्राजने च॥