शरीरावयवाच्च

4-3-55 शरीरावयवा च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः यत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शरीरं प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकाद् यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। दन्तेषु भवं दन्त्यम्। कर्ण्यम्। ओष्ठ्यम् ॥

Siddhanta Kaumudi

Up

दन्त्यम् । कर्ण्यम् ॥

Laghu Siddhanta Kaumudi

Up

दन्त्यम्। कण्ठ्यम्। <<अध्यात्मादेष्ठञिष्यते>> (वार्त्तिकम्) । अध्यात्मं भवमाध्यात्मिकम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शरीरावयवाच्च>> - शरीरावयवाच्च ।भव इत्यर्थे सप्तम्यन्तेभ्य॑ इति शेषः । दन्त्यमिति । दन्ते भवमित्यर्थः ।यस्येति चे॑त्यकारलोपः । एवं कण्ठम् ।

Padamanjari

Up

शरीरं प्राणिकाय इति ।'व्याकरणस्य शरीरम्' इत्यादिकस्तु प्रयोगो गौणः । अणोऽपवाद इति । वृद्धातु छ्ंअ परत्वाद्वाधते, पादे भवं पद्यम्,'पद्यत्यतदर्थे' इति पद्भावः । नासिकायां भवं नस्यम्,'नस नासिकाया यतस्क्षुद्रेषु' इति नस्भावः । कथम्'वेगो जङ्घोरस्यः' इति ? कथं च न स्यात्, न शरीरावयवसमुदायः शरीरावयवग्रहणेन गृह्यते । न च तदन्तविधिरस्ति ? निरङ्कशाः कवयः ॥