4-2-30 सौमात् टयण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता
'सा अस्य देवता' (इति) सोमात् ट्यण्
'सा अस्य देवता' अस्मिन् अर्थे सोम-शब्दात् ट्यण्-प्रत्ययः भवति ।
The word सोम gets the प्रत्यय 'ट्यण्' in the meaning of 'सा अस्य देवता'.
सोमशब्दाट् ट्यण् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। ण्कारो वृद्ध्यर्थः। टकारो ङीबर्थः। सोमो देवतास्य सौम्यं हविः। सौम्यं सूक्तम्। सा॒ैमी॑ (मै०सं० १.७.४) ऋक्॥
सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥
सौम्यम्॥
<<सा अस्य देवता>> 4.2.24 इत्यस्मिन् अर्थे 'सोम' शब्दात् ट्यण् प्रत्ययः भवति । यथा - सोमः अस्य देवता सः सौम्यः मन्त्रः । सोमः अस्य देवता तत् सौम्यं हविः । 'ट्यण्' इत्यतस्य टित्वात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाण...>> 4.1.15 इति ङीप्-प्रत्ययः विधीयते । यथा - सोमः अस्य देवता सा ऋक् = सौमी ऋक् । प्रक्रिया इयम् - सोम + ट्यण् + ङीप् [<<सोमाट्ट्यण्>> 4.2.30 इति ट्यण्, स्त्रीत्वे <<टिड्ढाण...>> 4.1.15 इति ङीप्] → सोम + य + ई [इत्संज्ञालोपः] → सौम + य + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → सौम् + य + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → सौम + य् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → सौम् + ई [<<हलस्तद्धितस्य>> 6.4.150 इति उपधा-यकारलोपः । अत्र <<यस्येति च>> 6.4.148 इत्यनेन निर्दिष्टमाभीयकार्यम् <<हलस्तद्धितस्य>> 6.4.150 इत्यस्य कृते असिद्धमस्ति, अतः <<हलस्तद्धितस्य>> 6.4.150 इत्यस्य कृते यकारः उपधायाम् एव वर्तते । तस्य अनेन सूत्रेण लोपः क्रियते] → सौमी
<<सोमाट्ट्यण्>> - सोमाट्टण् । सौम्यमिति । सोमो देवता अस्येति विग्रहः । टित्त्वस्य प्रयोजनमाह — टित्त्वान्ङीबिति । सौमीति । सोमो देवता अस्या ऋचेति विग्रहः ।ङीपिहलस्तद्धितस्ये॑ति यलोपः ।