7-1-11 न इदम् अदसः अकोः अतः भिस् ऐस्
index: 7.1.11 sutra: नेदमदसोरकोः
अकोः इदम्-अदसोः भिसः ऐस् न
index: 7.1.11 sutra: नेदमदसोरकोः
इदमदसित्येतयोः अककारयोः भिस ऐस् न भवति। एभिः। अमीभिः। अकोः इति किम्? इमकैः। अमुकैः। अकोः इत्येतदेव प्रतिषेधवचनं ज्ञापकम् तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति। इदमदसोः कातिति नोक्तम्, विपरीतोऽपि नियमः सम्भाव्येत इदमदसोरेव कातिति। ततश्च इह न स्यात्, सर्वकैः, विश्वकैः। इह च स्यादेव, एभिः, अमीभिः। प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम्।
index: 7.1.11 sutra: नेदमदसोरकोः
अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु ॥ ककारयोगे तु अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥
index: 7.1.11 sutra: नेदमदसोरकोः
अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥
index: 7.1.11 sutra: नेदमदसोरकोः
इदमदसोः इति भिसपेक्षया सम्बन्धलक्षणा षष्ठी । एभिरिति । त्यदाद्यत्वम्, हलि लोपः इतीद्भागस्य लोपः । अमीभिरिति । ऐसि प्रतिषिद्धे बहुवचने झल्येत् इत्येत्वम् एत ईद्वहुवचने इतीत्वमत्वे । एअकोरित्येतदनर्थकम्, कथम् विशिष्टरुपाश्रयोऽयं प्रतिषेधः - इदमदसोः इति, तत्राकचि कृते रुपभेदादेव न भविष्यति तत्राह - अकोरित्येतदेवेति । ज्ञापनस्य परयोजनम् - सर्वके इत्यादौ सर्वनामकार्यप्रवृत्तिः । इमौ द्वौ प्रतिषेधावुच्येते, द्वावपि शक्याववक्तुम् । कथम् एवं हि वक्ष्यामि - इदमदसोः कात् इति, तन्नियमार्थं भविष्यति - इदमसोरेव कादिति । ततश्च सर्वकैरित्यादौ न स्यात्, एभिरित्यादौ च स्यादेव - तन्मध्यपरिभाषा च न ज्ञापिता स्यात् । क्वचितु वृतावेव पठ।ल्ते - इदमदसोः कादिति नोक्तम्, विपरीतोऽपि नियमः स्यात् - इदमदसोरेव कादितीति ॥