बहुलं छन्दस्यमाङ्योगेऽपि

6-4-75 बहुलं छन्दसि अमाङ् योगे अपि असिद्धवत् अत्र आभात् लुङ्लङ्लृङ्क्षु अट् आट्

Sampurna sutra

Up

index: 6.4.75 sutra: बहुलं छन्दस्यमाङ्योगेऽपि


लुङ्लङ्लृङ्क्षु माङ्गयोगे अपि

Neelesh Sanskrit Brief

Up

index: 6.4.75 sutra: बहुलं छन्दस्यमाङ्योगेऽपि


वेदेषु - माङ्-योगे अपि अङ्गस्य अट् आट् बहुलम् भवतः ।

Neelesh English Brief

Up

index: 6.4.75 sutra: बहुलं छन्दस्यमाङ्योगेऽपि


In वेदाः, the अडागम आडागम may or may not be seen done in presence of माङ्.

Kashika

Up

index: 6.4.75 sutra: बहुलं छन्दस्यमाङ्योगेऽपि


छन्दसि विषये माङ्योगेऽपि बहुलमडाटौ भवतः, अमाङ्योगेऽपि न भवतः। अमाङ्योगे तावत् जनिष्ठा उग्रः। काममूनयीः। काममर्दयीत्। माङ्योगेऽपि भवतः मा वः क्षेत्रे परबीजान्यवाप्सुः। मा अभित्थाः। मा आवः।

Siddhanta Kaumudi

Up

index: 6.4.75 sutra: बहुलं छन्दस्यमाङ्योगेऽपि


अडाटो न स्तो माङ्योगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय (जनि(स्वा)ष्ठा उ॒ग्रः सह॑से तु॒राय॑) । मा वः क्षेत्रे परबीजान्यवाप्सुः (मा वः॒ क्षेत्रे॑ परबी॒जान्यवा॑प्सुः) ।

Neelesh Sanskrit Detailed

Up

index: 6.4.75 sutra: बहुलं छन्दस्यमाङ्योगेऽपि


माङ्-अव्ययस्य उपस्थितौ न माङ्योगे 6.4.74 इत्यनेन अङ्गस्य अट्/आट्-आगमस्य निषेधः क्रियते । परन्तु वेदेषु माङ्योगेऽपि एतौ आगमौ कृतौ दृश्येते, तथा माङ्-विना अपि एतयोः निषेधः कृतः दृश्यते ।

यथा -

  1. 'जनिष्ठा उग्रः सहसे तुराय' (तैत्तिरीयब्राह्मणम् - 2.8.3.18) । अत्र 'जनिष्ठाः' इति जन्-धातोः लुङ्-लकारस्य मध्यमपुरुषैकवचनमस्ति । अत्र यद्यपि माङ्-ग्रहणम् नास्ति, तथापि अडागमः न दृश्यते ।

  2. 'मा वः क्षेत्रे परबीजानि अवाप्सुः' (आपस्तम्बधर्मसूत्राणि) - अत्र 'अवाप्सुः' इति वप्-धातोः लुङ्लकारस्य मध्यमपुरुषैकवचनमस्ति । अत्र यद्यपि माङ्-ग्रहणमस्ति , तथापि अडागमः दृश्यते ।

Padamanjari

Up

index: 6.4.75 sutra: बहुलं छन्दस्यमाङ्योगेऽपि


मा वः क्षेत्र इति । वः युष्माकं क्षेत्रे भार्यायां परबीजानि परेषां वीर्याणि मा वाप्सुः, उप्तानि मा भूवन् । वपेः कर्मणि लुङ्, व्यत्ययेन परस्मैपदम्, झेर्जुस्, सिच्, वदव्रज इति वृद्धिः । क्वचितु माङ्योगेऽपि भवतीति प्रकम्य अवाप्सुरिति पठ।ल्ते, तथाध्ययनं तु न क्वचिद्दृष्टमभित्था इति । भिदेस्थास्, झलो झलि इति सिचो लोपः । आवरिति । पूर्वसूत्रे वृतावेव व्युत्पादितम् ॥