3-3-75 भावे अनुपसर्गस्य प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् ह्वः सम्प्रसारणं
अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययश्च भवति भावेऽभिधेये। हवः। हवे॑ हवे सु॒हवं॒ शूर॒मिन्द्र॑म् (ऋ० ६.४७.११)। अनुपसर्गस्येति किम्? आह्वायः। भावग्रहणम् <<अकर्तरि च कारके संज्ञायाम्>> ३.३.१९ इत्यस्य निरासार्थम्॥
अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥
भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा -'कर्मव्यतिहारे णच् स्त्रियाम्' इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा - ठभिविधौ भाव हनुण्ऽ इत्यत्र वासरूपनिवृत्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते - हूतः, ह्वानम्, हूतिरिति ॥