3-1-61 दीपजनबुधपूरितायिप्यायिभ्यः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चिण् ते
चिण् त इति वर्तते। <<दीपी दीप्तौ>>, <<जनी प्रादुर्भावे>>,<<बुध अवगमने>>, <<पूरी आप्यायने>> ,<<तायृ संतानपालनयोः>> <<ओप्यायी वृद्धौ>> एतेभ्यः परस्य च्लेस्तशब्दे परतोऽन्यतरस्यां चिणादेशो भवति। अदीपि, अदीपिष्ट। अजनि, अजनिष्ट। अबोधि, अबुद्ध। अपूरि, अपूरिष्ट। अतायि, अतायिष्ट। अप्यायि, अप्यायिष्ट॥
एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ॥
एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे॥
<<दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्>> - दीपजन ।च्लेः सि॑जित्यत च्लेरिति, 'चिण् ते पदः' इत्यस्माच्चिण् ते इति चानुवर्तते । तदाह — एभ्यश्च्लेरिति । एकवचन इति । दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः ।
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ जनी प्रादुर्भावे, बुध अवगमने इति ।'जन जनने' बुध बोधनेऽ सैत्येतयोस्तु परस्मैपदिनोरिह ग्रहणं न भवति; दीप्यादिभिरात्मनेपदिभिः साहचर्यात्। तेन परस्मैपदिभ्यां कर्मव्यतीहारे आत्मनेपदैकवचनेऽपि तशब्दे चिण् न भवति। यदि परस्मैपदिनोरिह ग्रहणं स्यात्, आत्मनेपदिनोर्न स्यात्; सानुबन्धकत्वात्। कर्तरि चायं विकल्पः, भावकर्मणोस्तु'चिण् भावकर्मणोः' इति नित्यमेव चिण् भवति, परत्वादिह कर्तरीत्यनुवृतेर्वा॥