अङितश्च

6-4-103 अङ् इतः च असिद्धवत् अत्र आभात् क्ङिति हेः धिः छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अङितश्च हेर्धिरादेशो भवति। <<वा छन्दसि>> ३.४.८८ इति पित्त्वेनास्याङित्त्वम्। सोम॑ रार॒न्धि (ऋ० १.९१.१३)। अ॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्रय॑न्धि (ऋ० ३.३६.९)। यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनः॑ (ऋ० १.१८९.१)। अङित इति किम् ? हव्यं प्रीणीहि (काठ०सं० ४०.१२)। रारन्धीति रमेर्व्यत्ययेन परस्मैपदम्, शपः श्लुरभ्यासदीर्घत्वं छान्दसत्वात्। मलोपाभावस्तु अङित्त्वादेव. प्रयन्धीति यमेः शपो लुक्। युयोधीति यौतेः शपः श्लुः॥

Siddhanta Kaumudi

Up

हेर्धिः स्यात् । रारन्धि (रा॒र॒न्धि) । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि (अ॒स्मे प्रय॑न्धि) । युयोधि जातवेदः (यु॒योधि॑ जातवेदः) । यमेः शपो लुक् । यौतेः शपः श्लुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अङितश्च>> - शसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पशसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — पाच्छब्दान्तमिति । पाच्छब्दस्येति । पाच्छब्दान्तस्य विधीयमानो ।ञपि पदादेशःनिर्दिश्यमानस्यादेशा भवन्ती॑ति पाच्छब्दस्यैव सर्वादेशो भवति, न तु तदन्तस्येति भावः । इत्यादीति । सुपदे । सुपदः । सुपदः । सुपदोः २ । सुपदि । इति दान्ताः । अथथान्ताः । अग्निमदिति । 'मन्थ विलोडने' इति भ्वादौ । 'मन्थ विलोडने' इति क्यादौ । उभाभ्यामपि क्विपिअनिदिता॑मिनि नलोपे अग्निमथिति रूपम् । ततः सुबुत्पत्तिः । सौ जश्त्वचर्त्वे इति भावः । भ्यामादौ जश्त्वेन थस्य दः । अग्निमद्भ्यामित्यादि । सुपिखरि चे॑ति चर्त्वम्, अग्निमत्सु । 'मथे विलोडने' इत्यस्याप्येतदेव रूपम् ।मथिहिंसासंक्लेशनयोः॑ इति इदितस्तु नलोपाऽभावात् अग्निमन् अग्निमन्थावित्यादि । इति थान्ताः । अथ चान्ताः । ऋत्विगित्यादिसूत्रेणेति । प्र-अञ्चतीत्यर्थे 'अञ्चु गतिपूजनयोः' इति गत्यर्थकाद्धातोर्नोपधात्क्विन्नित्यर्थः । पूजार्थस्य त्वग्रे वक्ष्यते । क्विनिहलन्त्य॑मिति नकार इत् । इकार उच्चारणार्थः । 'लशक्वतद्धिते' इति ककार इत् ।वेरपृक्तस्ये॑ति वकारलोपः ।

Padamanjari

Up

मलोपाभावस्त्विति । अनुदातोपदेश तैत्यादिना यो मलोपस्तस्याभावः । अङित्वादेवेइति । नासौ यत्नसाध्य इत्येवश्बदार्थः । यमेः शपो लुगिति । वहुलं च्छन्दसि इत्येव । एवमुतरत्रापि ॥