वा षपूर्वस्य निगमे

6-4-9 वा ष पूर्वस्य निगमे न उपधायाः सर्वनामस्थाने असम्बुद्धौ

Sampurna sutra

Up

index: 6.4.9 sutra: वा षपूर्वस्य निगमे


निगमे षपूर्वस्य नः अङ्गस्य उपधायाः असम्बुद्धौ सर्वनामस्थाने वा दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.4.9 sutra: वा षपूर्वस्य निगमे


वेदेषु - नकारान्तशब्दस्य उपधाभूतः यः अच्-वर्णः तस्मात् पूर्वम् यदि षकारः अस्ति, तर्हि तस्य अच्-वर्णस्य असम्बुद्धौ सर्वनामस्थाने विकल्पेन दीर्घः भवति ।

Neelesh English Brief

Up

index: 6.4.9 sutra: वा षपूर्वस्य निगमे


When followed by a प्रत्यय which is a सर्वनामस्थान other than सम्बोधन-एकवचन, the उपधा स्वर of a नकारान्त अङ्ग becomes optionally दीर्घ in वेदाः, if that उपधा स्वर is preceded by a षकार.

Kashika

Up

index: 6.4.9 sutra: वा षपूर्वस्य निगमे


षपूर्वस्य अचः नोपधायाः निगमविषये सर्वनामस्थाने परतः असम्बुद्धौ वा दीर्घो भवति। स तक्षाणं तिष्ठन्तमब्रवीत्। स तक्षणम् तिष्ठन्तमब्रवीत्। ऋभुक्षाणमिन्द्रम्। ऋभुक्षणमिन्द्रम्। निगमे इति किम्? तक्षा, तक्षाणौ, तक्षाणः।

Siddhanta Kaumudi

Up

index: 6.4.9 sutra: वा षपूर्वस्य निगमे


षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् (ऋभु॒क्षाण॑म्) । ऋभुक्षणम् (ऋभु॒क्षण॑म्) । निगमे किम् । तक्षा । तक्षाणौ ।

Neelesh Sanskrit Detailed

Up

index: 6.4.9 sutra: वा षपूर्वस्य निगमे


'निगम' इत्यु्क्ते वेद । अतः एतत् सूत्रम् वेदविषयकं नियमं वदति । सामान्यरूपेण तु सर्वनामस्थाने चासम्बुद्धौ 6.4.8 अनेन सूत्रेण असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः विधीयते । परन्तु यस्मिन् नकारान्तशब्दे उपधाभूतात् स्वरात् पूर्वम् षकारः अस्ति, तस्य नकारान्तशब्दस्य उपधावर्णस्य असम्बुद्धिवाचके सर्वनामस्थाने परे वेदेषु दीर्घः न कृतः अपि दृश्यते । तस्य समर्थनार्थमनेन सूत्रेण दीर्घादेशः विकल्प्यते ।

यथा - 'स तक्षणं तिष्ठन्तमब्रवीत्' इति प्रयोगः वेदेषु दृश्यते । अत्र मूलशब्दः अस्ति 'तक्षन्' । अयं नकारान्तशब्दः अस्ति, अतः सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन तस्य द्वितीया-द्विवचनस्य रूपम् 'तक्षाणम्' इति भवति । परन्तु अस्मिन् शब्दे उपधावर्णः यः अकारः, तस्मात् पूर्वम् षकारः अस्ति (तक्षन् = तक् ष् अ न) । अतः वर्तमानसूत्रेण उपधावर्णस्य दीर्घादेशः वेदानाम् विषये विकल्प्यते, येन 'तक्षणम्' अस्य रूपस्य साधुत्वम् सिद्ध्यति ।

ज्ञातव्यम् - लौकिकप्रयोगे तु नित्यम् दीर्घः करणीयः - तक्षा, तक्षाणौ, तक्षाणः ।

Padamanjari

Up

index: 6.4.9 sutra: वा षपूर्वस्य निगमे


अत्र दीर्घश्रुत्योपस्थापितस्याचो विशेषेणमुपधाग्रहणम् । षपूर्वस्य इत्येतदपि तस्यैव विषेषणम्, तेन पुंल्लिङ्गस्याविरोध इति मन्यमान आह - षपूर्वस्याचेति । ऋभुक्षणमिति । ऋभुक्षिशब्द उणाअदिषु निपातितः , इत्योऽत्सर्वनामस्याने इत्यकारः ॥