तुजादीनां दीर्घोऽभ्यासस्य

6-1-7 तुजादीनां दीर्घः अभ्यासस्य एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तुजादीनामिति प्रकार आदिशब्दः। कश्च प्रकारः ? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च। ये तथाभूतास्ते तुजादयस्तेषामभ्यासस्य दीर्घः साधुर्भवति। तूतु॑जानः॒ (ऋ० १.३.६)। मामहा॒नः (तै० सं० ४.६.३.२)। दाधान। मी॑माय (शौ० सं० ५.११.३)। अ॒न॒ड्वान् दा॑धार। (शौ० सं० ४.११.१)। स तू॑ताव (ऋ० १.९४.२)। दीर्घश्चैषां छन्दसि प्रत्ययविशेष एव दृश्यते, ततोऽन्यत्र न भवति। तुतोज शबलान् हरीन्॥

Siddhanta Kaumudi

Up

तुजादिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अयं योगः शक्योऽवक्तुम्, कथम्? छान्दसमेतद्दीर्घत्वं च्छन्दसि च दीर्घत्वं न शक्यं परिगणयितुम्, अन्येषामपि दर्शनात् पूरुषः, नारक इति। अनेकाजङ्गत्वाच्च येषां चारभ्यचते तेषामेव तस्मिन्प्रयोगे न दृश्यते -मामहानः, ममहान इति वा ॥