6-1-192 भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति उदात्तः सार्वधातुक् अभ्यस्तानाम्
भी ह्री भृ हु मद जन धन दरिद्रा जागृ इत्येतेषामभ्यस्तानां लसार्वधातुके पिति प्रत्ययात् पूर्वमुदात्तं भवति। बि॒भेति॑। जि॒ह्रेति॑। बि॒भर्ति॑ (तै० आ० ३.११.४)। जु॒होति॑ (तै० ब्रा० २.१.३.८)। म॒मत्तु॑ नः॒ परि॑ज्मा (तै० सं० २.१.११.१)। मदेः <<बहुलं छन्दसि>> २.४.७३ इति विकरणस्य श्लुः। ज॒जन॒दिन्द्॑रम् (तै० आ० ३.२.१)। <<जन जनने>> इत्यस्य पञ्चमे लकारे रूपम्। <<धन धान्ये>> इत्यस्य पञ्चमे लकारे द॒धन॒त् (तै० ब्रा० २.८.३.५)। द॒रि॒द्राति॑। जा॒गर्ति॑। भ्यादीनामिति किम्? ददा॑ति। पितीति किम् ? दरि॑द्रति॥
भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति (यो॑ऽग्निहो॒त्रं जु॒होति॑) । मत्तु नः परिज्मा (म॒मत्तु॑ नः॒ परि॑ज्मा) । माता यद्वीरं दधनत् (मा॒ता यद्वी॒रं द॒धनत्) । जागर्षित्वम् ॥