6-1-194 आदिः णमुलि अन्यतरस्याम् उदात्तः
णमुलि परतोऽन्यतरस्यामादिरुदात्तो भवति। लोलू॑यंलोलूयम्, लोलूयं॑लोलूयम्। पोपू॑यंपोपूयम्, पो॒पूयं॑पोपूयम्। आम्रेडितानुदात्तत्वे ८.१.३ कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः॥
अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ॥
लोलूयंलोलूयमिति। एकाक्षु धातुषु लित्स्वरस्य, अस्य च विशेषाभावादनेकाजुदाहृतः। आम्रेडितानुदातत्वे कृत इति। ठनुदातं चऽ इत्यनेन ॥