Home
Prev 6.1.127
Next 6.1.129
ऋत्यकः 6-1-128 ऋत्यकः च संहितायाम् प्रकृत्या अचि नित्यम् शाकल्यस्य ह्रस्वः च
Sampurna sutra Up
पदान्तस्य अकः असवर्णे ऋति ह्रस्वः प्रकृत्या शाकल्यस्य
Neelesh Sanskrit Brief Up
पदान्त-अक्-वर्णस्य ह्रस्व-ऋकारे/ऌकारे परे संहितायाम् शाकल्यस्य मतेन ह्रस्वादेशः भवति, तदनन्तरं च सन्धिकार्यं न भवति ।
Neelesh English Brief Up
According to शाकल्य, In the context of संहिता a पदान्त-अक्-letter, when followed by a ह्रस्व ऋ/ऌ-letter undergoes ह्रस्वादेशः and then no other sandhi happens.
Kashika Up
शाकल्यस्य ह्रस्वश्चेत्येतदनुवर्तते। ऋकारे परतः शाकल्यस्याचार्यस्य मतेनाकः प्रकृत्या भवन्ति, ह्रस्वश्च तस्याकः स्थाने भवति। खट्व ऋश्यः। माल ऋश्यः। कुमारि ऋश्यः। होतृ ऋश्यः। ऋतीति किम् ? खट्वेन्द्रः। अक इति किम् ? वृक्षावृश्यः। सवर्णार्थमनिगर्थं च वचनम्॥
Siddhanta Kaumudi Up
ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ताः इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् - सप्तर्षीणाम् ॥
Laghu Siddhanta Kaumudi Up
ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः पदान्ताः किम् ? आर्च्छत् ॥
Neelesh Sanskrit Detailed Up
पदस्य अन्ते विद्यमानस्य अक्-वर्णस्य असवर्णे ह्रस्व-ऋकारे/ऌकारे परे यणादेशं/सवर्णदीर्घं/गुणम् बाधित्वा शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) ह्रस्वादेशः, प्रकृतिभावः च भवति ।
क्रमेण उदाहरणानि एतानि —
1. अवर्णात् ऋकारे/ऌकारे परे गुणैकादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —
1. सप्त ऋषिः → सप्तऋषिः । अग्रे गुणैकादेशः न भवति । पक्षे, <<आद्गुणः>> 6.1.87 इत्यनेन गुणैकादेशे कृते सप्तर्षिः अपि सिद्ध्यति ।
2. सप्त ऌकारः → सप्तऌकारः, सप्तल्कारः ।
3. ब्रह्मा ऋषिः → ब्रह्मऋषिः, ब्रह्मर्षिः ।
4. ब्रह्मा ऌकारः → ब्रह्मऌकारः, ब्रह्मल्कारः ।
2. इवर्णात् ऋकारे/ऌकारे परे यणादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —
1. मति ऋषिः→ मतिऋषिः । अग्रे यणादेशः न भवति । पक्षे, <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे कृते मत्यृषिः इति अपि सिद्ध्यति ।
2. नदी ऋषिः → नदिऋषिः, नद्यृषिः ।
3. मति ऌकारः → मतिऌकारः, मत्यॢलकारः ।
4. नदी ऌकारः → नदिऌकारः, नद्यॢकारः ।
3. उवर्णात् ऋकारे/ऌकारे परे यणादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —
1. साधु ऋषिः → साधुऋषिः । अग्रे यणादेशः न भवति । पक्षे, <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे कृते साध्वृषिः इति अपि सिद्ध्यति ।
2. वधू ऋषिः → वधुऋषिः, वध्वृषिः ।
3. साधु ऌकारः → साधुऌकारः, साध्वॢकारः ।
4. वधू ऌकारः → वधुऌकारः, वध्वॢकारः ।
4. ऋवर्णात् ऋकारे/ऌकारे परे सवर्णदीर्घं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —
1. पितृ ऋषिः → पितृऋषिः । अग्रे सवर्णदीर्घः न भवति । पक्षे, <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यत्र पाठितेन <!ऋति सवर्णे र्रृ वा !> इति वार्त्तिकेन 'र्रृ' इति नरसिंह-ऋकारे कृते पित्र्रृकारः इति वैकल्पिकं रूपम्, तदभावे च <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घे कृते पितॄकारः इति रूपम् ।
2. तॄ ऋषिः → तृऋषिः । पक्षे <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घे कृते तॄषिः इति रूपम् ।
3. ऌ ऋषिः → ऌऋषिः । पक्षे सवर्णदीर्घं कृत्वा ॠषिः इति रूपम् ।
4. पितृ ऌकारः → पितृऌकारः । पक्षे, <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यत्र पाठितेन <!ऌति सवर्णे ल्लॢ वा !> इति वार्त्तिकेन 'ल्लॢ' इति नरसिंह-ऌकारे कृते पित्ल्लॢकार इति वैकल्पिकं रूपम्, तदभावे च <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घे कृते पितॄकारः इति रूपम् ।
5. तॄ ऌकारः → तृऌकारः । पक्षे सवर्णदीर्घं कृत्वा तॄकारः इति रूपम् ।
6. ऌ ऌकारः → ऌऌकारः । पक्षे सवर्णदीर्घं कृत्वा ॠकारः रूपम् ।
<<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> 6.1.127 तथा च <<ऋत्यकः>> 6.1.128 इत्येतयोमर्ध्ये भेदः
इवर्णात् उवर्णात् वा ऋकारे / ऌकारे परे <<ऋत्यकः>>
6.1.128 इत्यनेन यद् रूपम् सिद्ध्यति, तदेव रूपम् सामान्यतः <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>>
6.1.127 इत्यनेन अपि सिद्ध्यति । परन्तु
<<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> 6.1.127 इति सूत्रम् <! सित्-समासयोः शाकलप्रतिषेधो वक्तव्यः!> इति वार्त्तिकसामर्थ्यात् समासस्य विषये न प्रवर्तते । <<ऋत्यकः>> 6.1.128 इति सूत्रम् तु समासस्य विषये अपि प्रवर्तते । अतः
नद्याः ऋषिः इत्यत्र षष्ठीसमासे कृते <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>>
6.1.127 इत्यनेन ह्रस्वादेशः प्रकृतिभावः वा नैव सम्भवति । अत्र तत्कार्यं कर्तुम् <<ऋत्यकः>>
6.1.128 इत्येव सूत्रम् प्रयोक्तव्यम् ।
दलकृत्यम्
1. ऋति इत्यत्र तपरकरणम् किमर्थम् ? अत्र ऋकारस्य तपरकरणेन <<तपरस्तत्कालस्य>>
1.1.70 इति तात्कालिकभेदस्य एव ग्रहणं भवति, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् ऋकारे/ऌकारे परे च सम्भवति, न हि दीर्घ-ॠकारे परे । अतः
पितृ + ॠकारः इत्यत्र केवलम् सवर्णदीर्घं कृत्वा
पितॄकारः इति शब्दः सिद्ध्यति ।
2. पदान्तस्य इति किमर्थम् ? अक्-वर्णः पदान्ते नास्ति चेत् प्रकृतसूत्रेण ह्रस्वादेशः प्रकृतिभावः वा न भवति । यथा,
ऋच्छ् धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् आडागमे कृते
आ + ऋच्छ् + त् इति स्थिते अत्र प्रकृतसूत्रम् नैव प्रवर्तते, यतः अत्र
आ इति भिन्नम् पदम् नास्ति । अत्र <<आटश्च>>
6.1.90 इत्यनेन वृद्धि-एकादेशं कृत्वा
आर्च्छत् इत्येव रूपं सिद्ध्यति ।
Balamanorama Up
<<ऋत्यकः>> - ऋत्यकः । 'अकः' इति षष्ठी ।शाकल्यस्य ह्रस्वश्चे॑त्यनुवर्तते । असवर्णं इति निवृत्त्म् ।एङः पदान्ता॑दित्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते । ततःपदान्तस्याऽक ऋति ह्रस्वो वा स्या॑दित्येकं वाक्यं सम्पद्यते । चकारात्प्रकृत्येत्यनुकृष्यते ।उक्तो ह्रस्वः प्रकृत्या अवतिष्ठते॑ इति द्वितीयं वाक्यं संपद्यते । तदाह — ऋति परेऽकः प्राग्वदिति । ब्राहृ ऋषिरिति । ब्राहृआ — ऋषिरिति स्थिते आकारस्य ह्रस्वः प्रकृतिभावश्च । ततश्चाद्गुण इति परपः अकारो न भवति । अत्रा.ञऽकारस्य इक्त्वाऽभावादिकोऽसवर्णे इत्यप्राप्ते इदं वचनम् । ब्राहृर्षिरिति । उक्तह्रस्वसमुच्चितप्रकृतिभावाऽभावपक्षे आद्गुण इति अकारः । रपरत्वम् ।ऋत्यस्ये॑त्येव तु न सूत्रितम् । होतृ-ऋकार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यरकत्वात् । पदान्ता इत्येवेति । पदान्तग्रहणमत्राप्यनुवर्तनीयमेवेत्यर्थः । आच्र्छदिति । ऋ गतौ । लङ् तिप् शप् । पाघ्राध्मेति ऋच्छादेशः ।इतश्चे॑ति इकारलोपः,आडजादीना॑मित्याडागमः, आटश्चेति वृद्धिः । आ ऋच्छदिति स्थिते आकारस्याऽकः पदान्तत्वाऽभावान्नोक्तः प्रकृतिभावः । न समास इति पूर्वसूत्रस्थं निषेधवार्तिकमिह न संबध्यत इत्याह — समासेऽपीति । सप्तऋषीणामिति ।दिक्संख्ये संज्ञाया॑मिति समासः । सप्तऋषीणासिति प्रकृतिभावपक्षे रूपं तदभावपक्षे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति ।
Padamanjari Up
सवर्णर्थमनिगर्थं च वचनमिति। होतृ ऋश्यः, खट्व ऋश्य इत्यादौ; इन्यत्र पूर्वेणैव सिद्धत्वात् ॥