5-3-62 वृद्धस्य च प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी
अतिशायने वृद्धस्य अजाद्योः ज्यः
'अतिशय' अस्मिन् सन्दर्भे 'वृद्ध' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'ज्य' इति आदेशः भवति ।
वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। तयोश्च सत्त्वं नियमाभावेन पूर्ववद् ज्ञाप्यते। सर्व इमे वृद्धाः, अयमेषामतिशयेन वृद्धो ज्येष्ठः। उभाविमौ वृद्धौ, अयमनयोरतिशयेन वृद्धो ज्यायान्। अयमस्माद् ज्यायान्। <<प्रियस्थिर०>> ६.४.१५७ इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते। वचनसामर्थ्यात् पक्षे सोऽपि भवति — वर्षिष्ठः, वर्षीयानिति॥
ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥
'वृद्ध' (= old / grown up) इत्यस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने <<तमबिष्ठनौ>> 5.3.55 इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः 'वृद्ध'शब्दस्य 'ज्य' इति आदेशः भवति । यथा - 1. एते सर्वे वृद्धाः । अयम् एतेषामतिशयेन वृद्धः, अतः अयम् 'ज्येष्ठः' । प्रक्रिया इयम् - वृद्ध + इष्ठन् ज्य + इष्ठन् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः] → ज्येष्ठ [<<यस्येति च>> 6.4.148 इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> 6.4.155 इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<आद्गुणः>> 6.1.87 इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति । 2. एतौ द्वौ वृद्धौ। अयम् एतयोः अतिशयेन वृद्धः , अतः अयम् ज्यायान् । प्रक्रिया इयम् - वृद्ध + ईयसुँन् → वृद्ध + ईयस् → ज्य + ईयस् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः] → ज्य + आयस् [<<ज्यादादीयसः>> 6.4.160 इति ईकारस्य आकारः] → ज्यायस् [<<यस्येति च>> 6.4.148 इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> 6.4.155 इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।] अस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमे कृते 'ज्यायान्' इति रूपम् सिद्ध्यति । विशेषः - <<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> 6.4.157 अनेन सूत्रेण 'वृद्ध' शब्दस्य इष्ठन्/ईयसुन्-प्रत्यययोः परयोः 'वर्ष्' इति अपि आदेशः भवति । अतः पक्षे 'वर्षिष्ठ' तथा 'वर्षीयस्' एते प्रातिपदिके अपि सिद्ध्यतः । ज्ञातव्यम् - 1. 'वृद्ध' इति 'वृध्' धातोः क्त-प्रत्ययान्तरूपम् । अयम् शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> 5.3.55 तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> 5.3.58 इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'वृद्ध' शब्दस्य 'ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'वृद्ध'शब्दात् अपि अजादी प्रत्ययौ भवतः एव । 2. अस्मिन् सूत्रे 'वृद्ध' इत्यनेन 'वृद्ध' इत्यस्य शब्दस्य ग्रहणम् क्रियते, न हि 'वृद्ध' इति व्याकरणविशिष्टस्य संज्ञावाचिशब्दस्य ।
<<वृद्धस्य च>> - वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे — ज्यादेशः स्यादजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरति शयेन वृद्ध इत्यर्थः ।
स्वरूपग्रहणम्, न तु'वृद्धिर्यस्याचामादिः' इति पारिभाषिकस्येत्याह - वृद्धशब्दस्येति। अत्र च व्याख्यानमेव शरणम्। तयोश्चेत्यादि। यत्पूर्वमुक्तम् - ठेवमुतरेष्वपि योगेषु विज्ञेयम्ऽ इति, तदेवानेन स्मारितम्। वचनात्पक्षे सोऽपि भवतीति। ननु च वर्षादेशस्येमनिजवकाशः स्यात्? न; वृद्धशब्दादिमनिचोऽभावात्। यद्येवम्, वर्षादेसोऽपीहैव वक्तव्यः - वृद्धस्य वर्षिश्चेति, एवं हि द्विर्वृद्धग्रहणं न कर्तव्यं भवति? सत्यम्; तथा तु न कृतमित्येव। अपर आह - इष्ठनीयसुनोरिमवेमनिचोऽपि सद्भावः कल्प्यते, तेन वर्षिमेत्यपि भवति। तस्य मते - वर्षादेशस्येमनिचि चरितार्थत्वादिष्ठन्नीयसुनोरनेन ज्यादेश एव प्राप्नोति। तस्माद्'युवाल्पयोः कनन्यतरस्याम्' इत्यत्रेदमनुवर्तते, तेन ज्यादेशेन मुक्ते पक्षे वर्षादेशः ॥