ज्य च

5-3-61 ज्य च प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी प्रशस्यस्य

Sampurna sutra

Up

अतिशायने प्रशस्यस्य अजाद्योः ज्यः

Neelesh Sanskrit Brief

Up

'अतिशय' अस्मिन् सन्दर्भे 'प्रशस्य' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'ज्य' इति आदेशः भवति ।

Kashika

Up

प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। सर्व इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यो ज्येष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यो ज्यायान्। अयमस्मात् ज्यायान्। <<ज्यादादीयसः>> ६.४.१६० इत्याकारः॥

Siddhanta Kaumudi

Up

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥

Laghu Siddhanta Kaumudi

Up

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः। ज्येष्ठः॥

Neelesh Sanskrit Detailed

Up

'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनमर्हति' / 'प्रशंसां अर्हति' इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> 5.3.55 इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ स्वार्थे विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य'शब्दस्य <<प्रशस्यस्य श्रः>> 5.3.60 इत्यनेन 'श्र' आदेशे प्राप्ते पक्षे वर्तमानसूत्रेण 'ज्य' आदेशः अपि भवति । यथा - 1. एते सर्वे प्रशस्याः । अयम् एतेषामतिशयेन प्रशस्यः, अतः अयम् 'ज्येष्ठः' । प्रक्रिया इयम् - प्रशस्य + इष्ठन् ज्य + इष्ठन् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'ज्य' आदेशः] → ज्येष्ठ [<<यस्येति च>> 6.4.148 इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> 6.4.155 इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<आद्गुणः>> 6.1.87 इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति ।] 2. एतौ द्वौ प्रशस्यौ । अयम् एतयोः अतिशयेन प्रशस्यः, अतः अयम् ज्यायान् । प्रक्रिया इयम् - प्रशस्य + ईयसुँन् → ज्य + ईयस् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'ज्य' आदेशः] → ज्य + आयस् [<<ज्यादादीयसः>> 6.4.160 इति ईकारस्य आकारः] → ज्यायस् [<<यस्येति च>> 6.4.148 इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> 6.4.155 इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।] अस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमे कृते 'ज्यायान्' इति रूपम् सिद्ध्यति । पक्षे <<प्रशस्यस्य श्रः>> 5.3.60 इत्यनेन 'श्र' आदेशे कृते 'श्रेष्ठ / श्रेयस्' एते प्रातिपदिके अपि सिद्ध्यतः । ज्ञातव्यम् - 1. 'प्रशस्य' शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> 5.3.55 तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> 5.3.58 इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'प्रशस्य' शब्दस्य 'ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'प्रशस्य'शब्दात् अपि अजादी प्रत्ययौ भवतः एव । 2. वस्तुतः 'प्रशस्यस्य श्रः ज्यः च' इति एकम् सूत्रमपि भवितुमर्हति । परन्तु तादृशं क्रियते चेत् 'इष्ठन्' प्रत्यये परे 'श्रः' तथा 'ईयसुँन' प्रत्यये परे 'ज्य' इति आदेशः भवेत् वा - इति संशयः उपपद्येत । तथा च, अग्रिमसूत्रे <<वृद्धस्य च>> 5.3.62 इत्यत्र केवलम् 'ज्य' इत्यस्यैव अनुवृत्तिः इष्यते, न हि 'श्रः' इत्यस्य । अतएव अत्र आचार्यः योगविभागं कृत्वा द्वे सूत्रे निर्माति ।

Balamanorama

Up

<<ज्य च>> - ज्य च ।ज्ये॑ति लुप्तप्रथमाकम् । प्रशस्यस्येति, अजादी इति चानुवर्तते । तदाह — प्रशस्यस्येति । ज्येष्ठ इति ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । #ईयसु निज्यादेशेज्येया॑निति प्राप्ते — ।

Padamanjari

Up

योगविभागा उतरत्र ज्यादेश एव यथा स्यात्, आदेशो मा भूदिति। अयमनयोरिति। अतिशयेन प्रशस्य इति विपरिणामेनापेक्ष्यते, न पुनरुतरेणैकग्रन्थता। एवं सर्वत्र ॥