अजादी गुणवचनादेव

5-3-58 अजादी गुणवचनात् एव प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे तिङः

Sampurna sutra

Up

index: 5.3.58 sutra: अजादी गुणवचनादेव


अजादी अतिशायने गुणवचनात् एव

Neelesh Sanskrit Brief

Up

index: 5.3.58 sutra: अजादी गुणवचनादेव


'अतिशय' अस्मिन् सन्दर्भे विहितौ 'इष्ठन्' तथा 'ईयसुन्' एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।

Kashika

Up

index: 5.3.58 sutra: अजादी गुणवचनादेव


इष्ठन्नीयसुनौ अजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते, गुणवचनादेव भवतस्तौ न अन्यस्मादिति। पटीयान्। लघीयान्। पटिष्ठः। लघीष्ठः। इह न भवतः, पाचकतरः, पाचकतमः इति। एव कारः इष्टतोऽवधारणार्थः, प्रत्ययनियमोऽयं न प्रकृतिनियमः इति। पटुतरः। पटुतमः।

Siddhanta Kaumudi

Up

index: 5.3.58 sutra: अजादी गुणवचनादेव


इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.58 sutra: अजादी गुणवचनादेव


अतिशायने तमबिष्ठनौ 5.3.55 तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 एतयोः सूत्रयोः 'अतिशय' अस्मिन् सन्दर्भे 'तमप्', 'इष्ठन्', 'तरप्', 'इयसुन्' एतौ प्रत्ययौ विधीयेते । एतयोः द्वौ प्रत्ययौ (= इष्ठन्, ईयसुँन्) अजादी स्तः । एतयोः प्रयोगः वर्तमानसूत्रेण नियम्यते । केवलम् गुणवाचिनः ये शब्दाः (= words indicating a quality), तेभ्यः एव एतयोः प्रत्यययोः प्रयोगः भवति । (तरप्-तमप् प्रत्ययौ तु गुणवाचिभ्यः शब्देभ्यः अपि विधीयन्ते, अगुणवाचिभ्यः शब्देभ्यः चापि विधीयन्ते इति स्मर्तव्यम्) ।

यथा - 'शुक्ल', 'कृष्ण', 'लघु', 'गुरु' एतादृशेभ्यः गुणवाचकेभ्यः शब्देभ्यः 'इष्ठन्' तथा 'ईयसुँन्' प्रत्ययौ विधीयेते -

  1. एते सर्वे शुक्लाः, अयम् एतेषामतिशयेन शुक्लः, अतः अयम् शुक्लिष्ठः शुक्लतमः वा ।

  2. एतौ द्वावपि कृष्णौ, अयम् एतयोः अतिशयेन कृष्णः, अतः अयम् कृष्णियान् कृष्णतरः वा ।

  3. एते सर्वे गुरवः, अयम् एतेषामतिशयेन गुरुः, अतः अयम् गरिष्ठः गुरुतमः वा।

  4. एतौ द्वावपि लघू, अयम् एयोः अतिशयेन लघुः, अतः अयम् लघियान् लघुतरः वा ।

परन्तु ये शब्दाः गुणवाचिनः न सन्ति, तेभ्यः एतयोः प्रत्यययोः प्रयोगः न भवति, अतः तेभ्यः केवलम् 'तरप्' तथा 'तमप्' एतौ प्रत्ययौ एव भवतः । यथा -

  1. एते सर्वे पाचकाः । अयम् एतेषामतिशयेन पाचकः, अतः अयम् पाचकतमः ।

  2. एतौ द्वौ लेखकौ । अयम् एतयोः अतिशयेन लेखकः, अतः अयम् लेखकतरः ।

विशेषः -

  1. अस्मिन् सूत्रे प्रयुक्तः 'एव' इति शब्दः 'गुणवचनात्' इत्यनेन सह अन्वेतव्यः, न हि 'अजादी' इत्यनेन सह । इत्युक्ते, 'अजादिः प्रत्ययः गुणवचनात् एव भवति, अन्येभ्यः शब्देभ्यः न' इति अस्य सूत्रस्य आशयः अस्ति, न हि 'अजादिः एव गुणवचनेभ्यः भवति, अन्यः न' इति । अतः गुणवाचिभ्यः शब्देभ्यः तु चत्वारः अपि प्रत्ययाः विधीयन्ते ।

  2. तिङश्च 5.3.56 तथा च द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 एताभ्यां सूत्राभ्याम् तिङन्तेभ्यः 'तमप्' तथा 'तरप्' एतौ प्रत्ययौ एव भवतः । यद्यपि एताभ्यां सूत्राभ्याम् 'ईयसुँन्' तथा 'ईष्ठन्' एतयोः अपि विधानं क्रियते, तथापि तिङन्तशब्दाः 'गुणवाचकाः' न सन्ति, अतः तेभ्यः एतौ अजादीप्रत्ययौ नैव विधीयेते ।

  3. केचन अगुणवाचिनः शब्दाः अपि विधानसामर्थ्यात् 'ईयसुँन्' तथा 'इष्ठन्' एतौ अजादी प्रत्ययौ स्वीकुरुतः ।एतेषां विषये तुश्छन्दसि 5.3.59 इत्यस्मात् विन्मतोर्लुक् 5.3.65 एतेषु सूत्रेषु अधिकमुक्तमस्ति ।

Balamanorama

Up

index: 5.3.58 sutra: अजादी गुणवचनादेव


अजादी गुणवचनादेव - अजादी । तरप्तमुपौ इष्ठन्नीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः । तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः । तदाह — इष्ठन्नीयसुनाविति । पाचकतरः, पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठन्नीसुनौ नेति भावः ।गुणवचनादजादी एवे॑ति विपरीतनियमव्यावृत्त्यर्थ एवकारः । तेन पटुतरः पटुतम इत्यादि सिद्धम् ।

Padamanjari

Up

index: 5.3.58 sutra: अजादी गुणवचनादेव


एवकारः किमर्थः ? नियमो यथा विज्ञायेत; अन्यथा प्रकर्थेऽजाद्योर्विधानादप्रकर्षे विधिः स्यात्। ठतिशायनेऽ इत्यनुवर्तिष्यते, तत्रैव पुनर्वचनं नियमार्थं भविष्यति,नार्थ एवकारेण? तत्राह - एवकार इष्टतोऽडवधारणार्थ इति। असति ह्यस्मिन्विपरीतोऽपि नियमः सम्भाव्यते - अजादी एव गुणवचनादिति। तत्र को दोषः ? गुणवचनाद् व्यञ्जनादी न स्याताम्; तस्याजाद्योर्नियतत्वात्। यत एवकारस्ततोऽन्यत्रावधारणमिति। अजाद्योश्चानियतत्वादगुणवचनादपि तयोः प्रसङ्गः। इदमतिबहु क्रियते - अजादी गुणवचनादेवेति, एवं तु वक्तव्यम् - अतिशायने तमप्, गुणवचनादिष्ठन्, द्विवचनविभज्योपपद इयसुन्, गुणवचनादित्येव, ततस्तरप् च, गुमवटचनादिति निवृतम्? सापम्;'प्रशस्यस्य श्रः' इत्येवमाद्यर्थं तु ठजादीऽ इत्युक्तम्। एवं तर्हि'प्रशस्यस्य श्रो' जाद्योःऽ इत्येवास्तु, एवमपि ह्यएवकारो न वक्तव्यो भवति? त्वत्पक्षेऽपि'तरप् च' इति चकारः क्रियते, ततुल्यं भवति ॥