5-3-63 अन्तिकबाढयोः नेदसाधौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी
index: 5.3.63 sutra: अन्तिकबाढयोर्नेदसाधौ
अतिशायने अजाद्योः अन्तिक-बाढयोः नेद-साधौ
index: 5.3.63 sutra: अन्तिकबाढयोर्नेदसाधौ
'अतिशय' अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः 'अन्तिक' शब्दस्य 'नेद' आदेशः तथा 'बाढ' शब्दस्य 'साध' आदेशः भवति ।
index: 5.3.63 sutra: अन्तिकबाढयोर्नेदसाधौ
अन्तिकबाढयोः यथासङ्ख्यं नेद साध इत्येतावादेशौ भवतोऽजाद्योः परतः। तयोश्च सत्त्वं पूर्ववद् विज्ञेयम्। निमित्तभूतयोर्यथासङ्ख्यमत्र एष्यते सर्वाणीमान्यन्तिकानि, इदमेषामतिशयेन अन्तिकम् नेदिष्ठम्। उभे इमे अन्तिके, इदमनयोरतिशयेन अन्तिकं नेदीयः। इदमस्मान् नेदियः। सर्वे इमे बाढमधीयते, अयम् एषामतिशयेन बाढमधीते सधिष्ठः। उभाविमौ बाढमधीयाते, अयमनयोरतिशयेन बाढमधीते साधीयः। अयमस्मात् साधीयोऽधीते।
index: 5.3.63 sutra: अन्तिकबाढयोर्नेदसाधौ
अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥
index: 5.3.63 sutra: अन्तिकबाढयोर्नेदसाधौ
'अन्तिक' (near / proximate / closeby) तथा 'बाढ' (strong / loud / hard / aggressive) एताभ्यां शब्दाभ्यां 'अतिशय' अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5.3.55 इत्यनेन 'इष्ठन्' तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः 'अन्तिक' शब्दस्य 'नेद' इति आदेशः, तथा 'बाढ' शब्दस्य 'साध' इति आदेशः भवति । यथा -
अन्तिक + इष्ठन्
→ नेद + इष्ठन् [वर्तमानसूत्रेण 'अन्तिक' इत्यस्य 'नेद' आदेशः]
→ नेद् + इष्ठ [टेः 6.4.155 इति टिलोपः]
→ नेदिष्ठ
अन्तिक + ईयसुँन्
→ नेद + ईयस् [वर्तमानसूत्रेण 'अन्तिक' इत्यस्य 'नेद' आदेशः]
→ नेद् + ईयस् [टेः 6.4.155 इति टिलोपः]
→ नेदीयस्
अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति नुमागमे कृते 'नेदीयान्' इति रूपम् सिद्ध्यति ।
3.एते सर्वे बाढाः । अयम् एतेषामतिशयेन बाढः, अतः अयम् साधिष्ठः । प्रक्रिया इयम् -
बाढ + इष्ठन्
→ साध + इष्ठन् [वर्तमानसूत्रेण 'बाढ' इत्यस्य 'साध' आदेशः]
→ साध् + इष्ठ [टेः 6.4.155 इति टिलोपः]
→ साधिष्ठ
बाढ + ईयसुँन्
→ साध + ईयस् [वर्तमानसूत्रेण 'बाढ' इत्यस्य 'साध' आदेशः]
→ साध् + ईयस् [टेः 6.4.155 इति टिलोपः]
→ साधीयस्
अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति नुमागमे कृते 'साधीयान्' इति रूपम् सिद्ध्यति ।
ज्ञातव्यम् - 'अन्तिक' तथा 'बाढ' शब्दौ वस्तुतः गुणवाचिनौ न स्तः, अतः एताभ्याम् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5.3.55 तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव 5.3.58 इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव आदेशविधानम् कृतमस्ति । अतः विधानसामर्थ्यात् एताभ्याम् शब्दाभ्याम् अपि अजादी प्रत्ययौ भवतः एव ।
index: 5.3.63 sutra: अन्तिकबाढयोर्नेदसाधौ
अन्तिकबाढयोर्नेदसाधौ - अन्तिकबाढयोः अजाद्योरिति । शेषपूरणमिदम् । अन्तिक, बाढ अनयोरिष्ठेयसुनोः परतः 'नेद' 'साध' एतावादेशौ स्त इत्यर्थः । नेदिष्ठः नेदीयानिति । अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः साधीयनिति । अयमनयोरतिशयेन बाढ इत्यर्थः । बाढो — भृशः ।भृशप्रतिज्ञयोर्बाढ॑मित्यमरः ।अतिवेलभृशाऽत्यर्थातिमात्रोद्गाढनिर्भर॑मिति च ।
index: 5.3.63 sutra: अन्तिकबाढयोर्नेदसाधौ
निमितयोर्यथासंख्यमिह नेष्यत इति। ठजाद्योःऽ इति प्रकृतयोरिष्ठनीयसुनोर्ग्रहणातयोश्च क्रमेणोपदेशादजहत्क्रमयोरेव प्रतीतेर्यथासंख्याप्रसङ्गं मन्यते। कस्मात्पुनरिष्यमाणमपि न भवति ? विपरीतक्रमस्यापि सम्भवात्। तथा हि - कयोरजाद्योरित्यपेक्षायामानन्तर्थादीयसुंस्तावत्प्रतीयते, द्विवचनानुरोधात्विष्ठन्नपीत्येवमपि क्रमः सम्भवति। तदनयोः क्रमयोर्नान्यतरः क्रमो निर्द्धारयितुं शक्य इत्यनाश्रयणमेव तयोर्युक्तम् ॥