ज्यादादीयसः

6-4-160 ज्यात् आत् ईयसः असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ज्यादुत्तरस्येयस आकार आदेशो भवति। ज्यायान्। लोपस्य यिटा व्यवहितत्वादादित्युच्यते। लोपे हि सति अकृद्यकारे ७.४.२५ इति दीर्घत्वेन ज्यायानिति सिध्यति॥

Siddhanta Kaumudi

Up

आदेः परस्य <{SK44}> । ज्यायान् ॥

Laghu Siddhanta Kaumudi

Up

आदेः परस्य। ज्यायान्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ज्यादादीयसः>> - ज्यादादीयसः । ज्यात् — आदितिच्छेदः । ज्यात् परस्य ईयस आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह — आदेः परस्येति ।

Padamanjari

Up

लोपस्येति । यदि लोपो यिटा न व्यवहितः स्यातेनैव ज्यायानिति सिध्यतीति कृत्वा आदिति न वक्तव्यं स्यादिति भावः । कथं पुरर्लोपे सिद्धिः इत्याह - लोपे हीति । अकृद्यकार इति । अत्र क्ङितीति नानुवर्तत इति भावः । उरुयेत्यादौ छान्दसत्वाद्दीर्घाभावः ॥