5-3-60 प्रशस्यस्य श्रः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी
अतिशायने प्रशस्यस्य अजाद्योः श्रः
'अतिशय' अस्मिन् सन्दर्भे 'प्रशस्य' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'श्र' इति आदेशः भवति ।
प्रशस्यशब्दस्य श्र इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। अजादी इति प्रकृतस्य सप्तमी विभक्तिर्विपरिणम्यते। ननु च प्रशस्यशब्दस्यागुणवचनत्वादजादी न संभवतः? एवं तर्ह्यादेशविधानसामर्थ्यात् तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेवेति। एवमुत्तरेष्वपि योगेषु विज्ञेयम्। सर्व इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः श्रेष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः श्रेयान्। अयमस्मात् श्रेयान्। <<प्रकृत्यैकाच्>> ६.४.१६३ इति प्रकृतिभावात् श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः॥
अस्य श्रादेशः स्यादजाद्योः ॥
अस्य श्रादेशः स्यादजाद्योः परतः॥
'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनमर्हति' / 'प्रशंसां अर्हति' इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> 5.3.55 इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य'शब्दस्य 'श्र' इति आदेशः भवति । यथा - 1. एते सर्वे प्रशस्याः । अयम् एतेषामतिशयेन प्रशस्यः, अतः अयम् 'श्रेष्ठः' । प्रक्रिया इयम् - प्रशस्य + इष्ठन् श्र + इष्ठ [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः] → श्रेष्ठ [<<टेः>> 6.4.155 इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> 6.4.163 इति निषेधः । अतः <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 2. एतौ द्वौ प्रशस्यौ । अयम् एतयोः अतिशयेन प्रशस्यः, अतः अयम् श्रेयान् । प्रक्रिया इयम् - प्रशस्य + ईयसुँन् → श्र + ईयस् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः] → श्रेयस् [<<टेः>> 6.4.155 इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> 6.4.163 इति निषेधः । अतः <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] अस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमे कृते 'श्रेयान्' इति रूपम् सिद्ध्यति । विशेषः - <<ज्य च>> 5.3.61 इत्यनेन अग्रिमसूत्रेण 'प्रशस्य' शब्दस्य अजादिप्रत्यययोः परयोः 'ज्य' इत्यपि आदेशः भवति । ज्ञातव्यम् - 'प्रशस्य' शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> 5.3.55 तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> 5.3.57 इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> 5.3.58 इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'प्रशस्य' शब्दस्य 'श्र' आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'प्रशस्य'शब्दात् अपि अजादी प्रत्ययौ भवतः एव ।
<<प्रशस्यस्य श्रः>> - प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते — ।
अजाद्योः प्रत्यययोः परत इति। ननु चाजादी इति प्रथमान्तं प्रकृतम्। न सप्तम्यन्तम्, तत्कथमयमर्थो लभ्यते ? इत्यत आह - अजादी इति प्रकृतस्येत्यादि। प्रकृतस्य या विभक्तिः प्रथमा सा सप्तमीरूपेण विपरिणम्यते, ऊह्यत इत्यर्थः। एवं तर्हीत्यादि। अथ यावेव सम्भवतः - तरप्तमपौ, तयोरेव परतोऽयमादेशः कस्मान्न भवति? नैवं भवितुमर्हति; ठजादीऽ इत्यनुवृत्तिसामर्थ्यात्। अथात्रैवाजाद्योर्विधिः कस्मान्न विज्ञायते - प्रशस्यशब्दादजादी भवतः, श्रश्चास्यादेश इति, तत्रायमप्यर्थः - विभक्तिविपरिणामो न कर्तव्यो भवति? नैवं शक्यम्; तरप्तमपौ हि स्याताम्, विशेषविहितावजादी बाधेयाताम्, उपाधीनां च सङ्करः स्याद्-इष्ठन्विषये ईयसुन्, तद्विषये चेष्ठन्निति। तद्विषय इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। सप्तम्यन्तपाठे तु स एव विषयस्तत्रेत्यर्थः। नियमो न प्रवर्तत इति। नयमाप्रवृत्तिज्ञापनद्वारेणाजादिभावो ज्ञाप्यते, न तु साक्षादित्यर्थः; अन्यथा पुनरनजाद्योर्बाध उपाधिसङ्करश्च स्यात्, उक्तेन प्रकारेण स्वशास्त्रेणैवाजाद्योर्विदानान्नैतद्दोषद्वयमपि भवति। कथं पुनर्थाश्रुतसम्बन्धसम्भवेऽपि विपरिणामः शक्य आश्रयितुम् ? शृणु; अजाद्योर्विधिरिष्टश्चेत्पञ्चम्या निरदेक्ष्यत्। किञ्च एवं सन्नियोगार्थश्चकारोऽप्यकरिष्यत। टिलोप-यस्येतिलोपाविति।'यस्येति' इत्यनेन लोपो यस्येतिलोपः,'कर्तृकरणे कृता बहुलम्' इति समासः, तत्रानुकरणत्वादस्यवामीयमित्यादिवद्बिभक्तेरलोपः। ठाद्गुणःऽ इति त्वनङ्गत्वान्न प्रतिषिध्यते ॥