इदमो र्हिल्

5-3-16 इदमः र्हिल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले

Sampurna sutra

Up

index: 5.3.16 sutra: इदमो र्हिल्


इदमः सप्तम्याः काले र्हिल्

Neelesh Sanskrit Brief

Up

index: 5.3.16 sutra: इदमो र्हिल्


'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'र्हिल्' इति प्रत्ययः स्वार्थे विधीयते ।

Kashika

Up

index: 5.3.16 sutra: इदमो र्हिल्


सप्तम्याः इत्येव, काले इति च। इदमः सप्तम्यन्तात् काले वर्तमानात् र्हिल् प्रत्ययो भवति। हस्य अपवादः। लकारः स्वरार्थः। अस्मिन् काले एतर्हि। काले इत्येव, इह देशे।

Siddhanta Kaumudi

Up

index: 5.3.16 sutra: इदमो र्हिल्


सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.16 sutra: इदमो र्हिल्


सप्तम्यन्तात् काल इत्येव॥

Neelesh Sanskrit Detailed

Up

index: 5.3.16 sutra: इदमो र्हिल्


अनेन सूत्रेण 'र्हिल्' ( = र् + ह् + इ + ल्) इति प्रत्ययः पाठ्यते । 'काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । प्रक्रिया इयम् -

अस्मिन् काले इत्येव

= अस्मिन् + र्हिल्

→ अस्मिन् + र्हि [लकारस्य इत्संज्ञा, लोपः]

→ इदम् + र्हि [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]

→ एत + र्हि ['इदम्' सर्वनाम्नः रेफादौ विभक्तिप्रत्यये परे एतेतौ रथोः 5.3.4 इत्यनेन 'एत' इति आदेशः ]

→ एतर्हि

अनेन प्रकारेण निर्मितः 'एतर्हि' शब्दः 'अस्मिन् काले' इत्यस्मिन्नेव अर्थे प्रयुज्यते । तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अस्य अव्ययसंज्ञा भवति ।

ज्ञातव्यम् - दानीं च 5.3.18 इत्यनेन 'इदम्' इत्यस्य सप्तम्यन्तरूपात् 'अस्मिन् काले' इत्यमिन्नेव अर्थे 'दानीम्' प्रत्ययः अपि विधीयते, येन 'इदानीम्' इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः 'एतर्हि' इत्येव ।

Balamanorama

Up

index: 5.3.16 sutra: इदमो र्हिल्


इदमो र्हिल् - इदमो र्हिल् । इदमः — र्हिल् इति च्छेदः । एतर्हीति । इदम्शब्दात् र्हिल् ।एतेतौ रथो॑रित्येतादेशः ।

Padamanjari

Up

index: 5.3.16 sutra: इदमो र्हिल्


लकारः स्वरार्थ इति। यथा हीत इत्यत्र ठूडिदम्ऽ इत्यादिना स्वरो भवति, तथेह न भवति; लित्वस्याचरीतार्थत्वात्। तसिलस्तु लित्वलमिदमोऽन्यत्र चरितार्थम् ॥