इतराभ्योऽपि दृश्यन्ते

5-3-14 इतराभ्यः अपि दृश्यन्ते प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः

Sampurna sutra

Up

विभक्तिप्रत्ययाः इतराभ्यः अपि दृश्यन्ते

Neelesh Sanskrit Brief

Up

अत्र पाठिताः तसिलादयः प्रत्ययाः पञ्चमी/सप्तमीविभक्तिं विहाय अन्येभ्यः विभक्तिप्रत्ययेभ्यः अपि कृताः दृश्यन्ते ।

Kashika

Up

पञ्चमीसप्तम्यपेक्षमितरत्वम्। इतराभ्यो विभक्तिभ्यस्तसिलादयो दृश्यन्ते। दृशिग्रहणं प्रायिकविध्यर्थम्, तेन भवदादिभिर्योग एवैतद्विधानम्। के पुनर्भवदादयः? भवान् दीर्घायुरायुष्मान् देवानां प्रिय इति। स भवान्, ततो भवान्, तत्र भवान्। तं भवन्तम्, ततो भवन्तम्, तत्र भवन्तम्। तेन भवता, ततो भवता, तत्र भवता। तस्मै भवते, ततो भवते, तत्र भवते। तस्माद् भवतः, ततो भवतः, तत्र भवतः। तस्य भवतः, ततो भवतः, तत्र भवतः। तस्मिन् भवति, ततो भवति, तत्र भवति। एवं दीर्घायुःप्रभृतिष्वप्युदाहार्यम्॥

Siddhanta Kaumudi

Up

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते ।<!दृशिग्रहणाद्भवदादियोग एव !> (वार्तिकम्) ॥ सभवान् । ततोभवान् । तत्रभवान् । तंभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ॥

Laghu Siddhanta Kaumudi

Up

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। तं भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्॥

Neelesh Sanskrit Detailed

Up

अस्मिन् प्राग्दिशीयप्रकरणे पाठिताः विभक्तिसंज्ञकप्रत्ययाः प्रायः सर्वे सप्तम्यन्तशब्दात् उत पञ्चम्यन्तशब्दात् उक्ताः सन्ति । परन्तु केषुचन स्थलेषु एते प्रत्ययाः अन्यविभक्त्यन्तात् अपि विहिताः दृश्यन्ते । एतादृशानां प्रयोगानाम् साधुत्वम् द्योतयितुम् पाणिनिना इदम् सूत्रम् विरचितमस्ति । शिष्टप्रयोगमनुसृत्य कुत्रचित् तसिल् /त्रल् आदयः प्रत्ययाः सप्तमीविभक्तिं पञ्चमीविभक्तिं वा विहाय अन्यविभक्तिवाचकेभ्यः शब्देभ्यः अपि भवितुमर्हन्ति, इति अस्य सूत्रस्य आशयः । 'एते शिष्टप्रयोगाः के के' - इति काशिकाकारः स्पष्टीकरोति । सः वदति - 'भवान् दीर्घायुरायुष्मान् देवानां प्रियः इति' । इत्युक्ते, 'भवान्', 'दीर्घायुः', 'आयुष्मान्', तथा 'देवानांप्रियः' (समस्तपदम् इदम्, 'मूर्खः' इति अर्थः) एतेषाम् विशेषणरूपेण यदि सर्वनामवाचकः शब्दः आगच्छति, तर्हि तस्मात् सर्वनामवाचकशब्दात् वर्तमानसूत्रेण तसिलादयः प्रत्ययाः भवितुमर्हन्ति । यथा - 1) 'सः भवान्' अस्मिन् वाक्यखण्डे 'सः' इति तद्-शब्दस्य प्रथमैकवचनम् 'भवान्' इत्यस्य विशेषणरूपेण प्रयुक्तमस्ति । अस्यां स्थितौ 'तद्' इत्यस्मात् शब्दात् 'त्रल्' इति प्रत्ययः वर्तमानसूत्रेण भवितुमर्हति, येन 'तत्र' इति रूपं सिद्ध्यति । 'सः भवान्' इत्येव = तत्रभवान् । एवमेव 'तद्' शब्दात् 'तसिल्' प्रत्ययं कृत्वा 'ततः भवान्' इति अपि शब्दः अस्मिन् अर्थे एव सिद्ध्यति । 'सः भवान्' इत्येव = ततोभवान् । अनेनैव प्रकारेण अन्येषाम् विभक्त्यन्तानां विषये अपि ज्ञातव्यम् - 2) तम् भवन्तम् = तत्रभवन्तम् / ततोभवन्तम् । 3) तेन भवता = तत्रभवता / ततोभवता । 4) तस्मै भवते = तत्रभवते / ततोभवते । 4) तस्मात् भवतः = तत्रभवतः / ततोभवतः । 5) तस्य भवतः = तत्रभवतः / ततोभवतः । 6) तस्मिन् भवति = तत्रभवति / ततोभवति । अन्येषाम् शब्दानां विषये अपि एतादृशमेव ज्ञेयम् - 1) सः दीर्घायुः = तत्रदीर्घायुः / ततोदीर्घायुः । 2) सः आयुष्मान् = तत्रायुष्मान् / तत आयुष्मान् । 3) सः देवानां प्रियः = तत्र देवानां प्रियः / ततोदेवानां प्रियः । 4) अयम् भवान् = इहभवान् / इतोभवान् । 5) कः भवान् = क्वभवान् / कुतोभवान् । विशेषः - 1. अस्मिन् सूत्रे 'दृश्यन्ते' इति शब्दः प्रयुक्तः अस्ति । अस्य स्पष्टीकरणम् कौमुद्यां दीयते - 'दृशिग्रहणाद्भवदादियोग एव' । इत्युक्ते, शिष्टप्रयोगमनुसृत्य (= 'भवान्' आदीनाम् विषये एव) सूत्रम् इदम् प्रयोक्तव्यम् - इति अत्र आशयः । 2. अनेन सूत्रेण 'अत्र भवान्' , 'तत्र भवान्' एतादृशानि वाक्यानि सिद्ध्यन्ति । परन्तु केचन पण्डिताः अत्र केवलसमासं कृत्वा 'अत्रभवान्', 'तत्रभवान्' एतादृशम् एकपदात्मकम् प्रयोगमपि समीचीनमेव ज्ञापयन्ति ।

Balamanorama

Up

<<इतराभ्योऽपि दृश्यन्ते>> - इतराभ्यो ।ञपि दृश्यन्ते । पञ्चमीसप्तमीतरविभक्तिभ्योऽपीत्यर्थः । फलितमाह — पञ्चमीसप्तमीतरविभक्त्यन्तादपीति ।किमादे॑रिति शेषः । एवमिति । स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घीयुरित्याद्यूह्रमित्यर्थः ।

Padamanjari

Up