1-2-38 देवब्रह्मणाः अनुदात्तः एकश्रुति सुब्रह्मण्यायां स्वरितस्य तु उदात्तः
सुब्रह्मण्यायामेव देवा ब्रह्माण इति पठ्यते, तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेनानुदात्तो विधीयते। देवब्रह्मणोः स्वरितस्यानुदात्त आदेशो भवति। दे॒वा ब्र॒ह्माण आ॒गच्छत (श०ब्रा० ३.३.४.२०)। द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे शेषनिघाते चोदात्तादनुदात्तस्य स्वरितः कृतस्तस्यानुदात्तो भवति॥
अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवाब्रह्माण आगच्छत ॥
स्वरितस्योदाते प्राप्ते इति । कथं प्राप्तः, यावताऽसिद्धः स्वरितः ? एवं तर्ह्येतज्ज्ञापयत्याचार्यः-ऽतस्यादितःऽ इत्यारभ्य नबसूत्री ऽउदातादनुदातस्य स्वरितःऽ त्यिस्मात्परा द्रष्टव्येति । उक्तानि प्रयोजनानि, उतरत्र च वक्ष्यामः । सामान्यापेक्षत्वाज्ज्ञापकस्य नवसूत्र्यप्युत्कृष्यते, न सुब्रह्मण्यास्वर एव । द्वयोरपि पदयोरिति । द्वितीयस्य पदत्परस्यापि निघातो न भवति; ऽ आमन्त्रितं पूर्वमविद्यमानवद्ऽ इति पूर्वस्याविद्यमान्त्वात् । प्रथमस्यापि न भवति; भिन्नवाक्यत्वात् ॥