गोत्रे कुञ्जादिभ्यश्च्फञ्

4-1-98 गोत्रे कुञ्जादिभ्यः च्फञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

'तस्य गोत्रे अपत्यम्' (इति) कुञ्जादिभ्यः च्फञ्

Neelesh Sanskrit Brief

Up

गोत्रापत्यस्य निर्देशार्थम् कुञ्जादिगणस्य षष्ठीसमर्थेभ्यः शब्देभ्यः च्फञ् प्रत्ययः भवति ।

Kashika

Up

तस्यापत्यमित्येव। गोत्रसंज्ञकेऽपत्ये वाच्ये कुञ्जादिभ्यश्च्फञ् प्रत्ययो भवति। इञोऽपवादः। चकारो विशेषणार्थः, <<व्रातच्फञोरस्त्रियाम्>>५.३.११३ इति। ञकारो वृद्ध्यर्थः। कौञ्जायन्यः, कौञ्जायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः। गोत्र इति किम्? कुञ्जस्यापत्यमनन्तरं कौञ्जिः। एकवचनद्विवचनयोः सतिशिष्टत्वाद् ञित्स्वरेणैव भवितव्यम्। बहुवचने तु कौञ्जायना इति परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यते। गोत्राधिकारश्च <<शिवादिभ्योऽण्>> ४.१.११२ इति यावत्॥ कुञ्ज। ब्रध्न। शङ्ख। भस्मन्। गण। लोमन्। शठ। शाक। शाकट। शुण्डा। शुभ। विपाश। स्कन्द। स्तम्भ॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गोत्रे कुञ्जादिभ्यश्च्फञ्>> - गोत्रे कुञ्ज । स्पष्टम् । इञोऽपवादः । च्फञिचञावितौ ।

Padamanjari

Up

चकारो विशेषणार्थ इति । यद्यत्र चकारो न क्रियेत ततो'व्रातफञोरस्त्रियाम्' इति वक्तव्यम्, ततोः ठश्वादिभ्यः फञ्ऽ इत्यस्याग्रहणं स्यात् । कौञ्जायन्य इति । स्वार्थे ञ्यः बहुषु तु'ञ्यादयस्तद्राजाः' इति तद्राजत्वात्'तद्राजस्य बहुषु' इत्यादिना लुक् । किं पुनरत्र ञित्स्वरो भवति ? उत चित्स्वरः ? इत्यत्राह - एकवचनद्विवचनयोरिति । तत्र हि ञ्यप्रत्ययः श्रूयते, स च पश्चाद्भावीति तन्निबन्धनो ञित्स्वरः सतिशिष्टः । बहुवचने तु ञ्ये निवृते सम्प्रधारणा - ञित्स्वरो वा, चित्स्वरोवेति ? तत्र परत्वाद् ञित्स्वरः प्राप्नोति, चित्करणसामर्थ्याच्चित्स्वरो भविष्यति । ञित्करणसामर्थ्याद् ञित्स्वरः प्राप्नोति, अस्त्यन्यत् ञित्करणस्य प्रयोजनम्, किम ? वृद्ध्यर्थो ञकारः । चित्करणेऽपि तर्ह्यस्त्यन्यत्प्रयोजनम्, किम् ? विशेषणम् । शक्योऽत्र विशेषमार्थोऽन्योऽनुबन्ध आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः शक्य आसंक्तुम्, तत्र ञकारानुरोधाद् ञित्स्वरः प्राप्नोति ? एवं स्थिते इदमुच्यते - परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यत इति । एवं मन्यते - स्वरे योगविभागः कर्तव्यः, इतमस्ति'चितः' - चितोऽन्त उदातो भवति, ततः'तद्धितस्य' चित इत्येव, तद्धितस्य चितोऽन्त उदातो भवति । किमर्थमिदम् ? परत्वात्प्राप्तस्य ञित्स्वरस्य बाधनअर्थम् । ततः'कितः' , कितश्च तद्धितस्यान्त उदातो भवतीति । यदि तु क्फप्रत्ययः क्रियते, तद्धितस्येति योगविभागः शक्योऽकर्तुम् । अथैवं कस्मान्न क्रियते -'गोत्रे कुञ्जादिभ्यश्च्फञ्, बहुषु फक्, नडादिभ्यस्च' इति ? नैवं शक्यम्; इह हि दोषः स्यात् - कौञ्जायनानामपत्यं माणवकः कौञ्जायन्यः, कौञ्जायन्यौ; ऐकेन यशब्दः श्रूयते, द्व्येकयोर्हि च्फञ्विधीयते । यदा तु च्फञन्तात् ञ्यो विधीयते तदा यून्युत्पन्नस्येञः'ण्यक्षत्रियार्षञितः' इति लुकि कृते'तद्राजस्य' इतिञ्यस्य लुकि प्राप्ते'गोत्रे' लुगचिऽ इति प्रतिषेधाद्यशब्दस्य श्रवणं भवति । यथा कौञ्जायन्यस्यापत्यानि बहूनि, अत इञो लुकि तद्राजस्यैव बहुषु वर्तमानत्वाद् ञ्यस्य लुकि कौञ्जायना इति भवति ॥