4-4-117 घच्छौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि अग्रात्
'तत्र भवे' (इतिि) अग्रात् छन्दसि संज्ञायाम् घन् घ-छौ च
'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'अग्र'शब्दात् वेदेषु संज्ञायाः विषये घन्, घ तथा छ प्रत्ययाः प्रयुक्ताः दृश्यन्ते ।
अग्रशब्दाद् यत् घच्छौ च प्रत्यया भवन्ति तत्र भव इत्येतस्मिन् विषये। अग्र्य॑म् (खि०१.३.७)। अग्रि॒यम् (ऋ०१.१३.१०)। अ॑ग्री॒यम् (मै०सं०२.७.१३)। चकारः <<तुग्राद् घन्>>४.४.११५ इत्यस्यानुकर्षणार्थः। अग्रि॑यम्। स्वरे विशेषः॥
चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥
'तत्र भवः' अस्मिन् अर्थे 'अग्र'शब्दात् सप्तमीसमर्थात् घन्, घ तथा छ प्रत्ययाः कृताः दृश्यन्ते । यथा - 1) अग्रे भवः = अग्र + घन् → अग्र + इय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय-आदेशः] → अग्र् + इय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → अग्रिय 2) अग्रे भवः = अग्र + घ → अग्र + इय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय-आदेशः] → अग्र् + इय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → अग्रिय घन्-प्रत्ययान्तरूपम् तथा घ-प्रत्ययान्तरुपम् समानमेव वर्तते, परन्तु तत्र कश्चन स्वरभेदः अपि अस्ति । घन्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्ताः सन्ति । परन्तु घ-प्रत्ययान्तशब्दानां विषये तु <<आद्युदात्तश्च>> 3.1.3 इत्यनेन प्रत्ययस्य प्रथमस्वरः उदात्तः भवति, अतः <<अनुदात्तं पदमेकवर्जम्>> 6.1.158 इत्यनेन तद्धितान्तस्य प्रथमस्वरः अनुदात्तः जायते । वेदेषु प्रयोगः - 'घन्' प्रत्ययान्तः आद्युदात्तः 'अग्रिय' शब्दः - (ऋग्वेदः 1.16.7) - अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः । अथा॒ सोमं॑ सु॒तं पि॑ब । 3) अग्रे भवः = अग्र + छ → अग्र + ईय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईय-आदेशः] → अग्र् + इय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → अग्रीय ज्ञातव्यम् 1. अस्मिन् सूत्रे 'घच्छौ' इति उच्यते । वस्तुतः अत्र प्रत्ययः 'घ' तथा 'छ' एतौ एव स्तः । घकारात् परस्य अकारस्य छकारे परे <<छे च>> 6.1.73 इत्यनेन तुगागमं कृत्वा तस्य <<स्तोः श्चुना श्चुः>> 8.4.40 इत्यनेन श्चुत्वे कृते चकारः जायते । 2. 'घच्छौ च' इत्यत्र प्रयुक्तम् 'च' इति अव्ययम् <<तुग्रात् घनः>> 4.4.115 इत्यस्मात् 'घन्' इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । अतः अत्र घन्, घ, छ - त्रयः प्रत्ययाः निर्दिश्यन्ते । 3. 'अग्र'शब्दात् <<अग्राद्यत्>> 4.4.116 इत्यनेन पूर्वसूत्रेण यत्-प्रत्ययः अपि विधीयते इति स्मर्तव्यम् ।
चकारस्तुग्राद्धनित्यस्यानुकर्षणार्थ इति । पूर्वमेव विहितस्य यतोऽनुकर्षणे प्रयोजनाभावात् ॥