4-4-118 समुद्राभ्रात् घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि
index: 4.4.118 sutra: समुद्राभ्राद्घः
'तत्र भवे' (इति) समुद्र-अभ्रात् छन्दसि संज्ञायाम् घः
index: 4.4.118 sutra: समुद्राभ्राद्घः
'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् समुद्रशब्दात् अभ्रशब्दात् च वेदेषु संज्ञायाः विषये घ-प्रत्ययः कृतः दृश्यते ।
index: 4.4.118 sutra: समुद्राभ्राद्घः
समुद्रशब्दातभ्रशब्दाच् च घः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे। यतोऽपवादः। समुद्रिया नदीनाम्। अभ्रियस्येव घोषाः। अभ्र। शब्दस्य अपूर्वनिपातः, तस्य लक्षणस्य व्यभिचारित्वात्।
index: 4.4.118 sutra: समुद्राभ्राद्घः
समुद्रिया अप्सुरसो मनीषिणम् (स॒मु॒द्रिया॑ अप्सु॒रसो॑ मनी॒षिण॑म्) । नानदतो अभ्रियस्येव (नान॑दतो अ॒भ्रिय॑स्येव॒) । घोषाः॑ ॥
index: 4.4.118 sutra: समुद्राभ्राद्घः
सप्तमीसमर्थात् 'समुद्र'शब्दात् 'अभ्र'शब्दात् च 'तत्र भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'घ'प्रत्ययः कृतः दृश्यते ।
= समुद्र + घ
→ समुद्र + इय [आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]
→ समुद्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]
→ समुद्रिय
यथा - ऋग्वेदे 7.87.1 - 'रद॑त्प॒थो वरु॑ण॒: सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म्' । अत्र स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः कृतः अस्ति ।
= अभ्र + घ
→ अभ्र + इय [आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]
→ अभ्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]
→ अभ्रिय
यथा - ऋग्वेदे 10.68.1 - उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषा॑: ।
index: 4.4.118 sutra: समुद्राभ्राद्घः
समुनतीति समुद्रः, उन्देः'स्फायितञ्चि' इति रक्प्रत्ययः । अपो बिभर्तीत्यभ्रम्, मूलविभुजादित्वात्कः । तस्य लक्षणस्येति । तस्य पूर्वनिपातस्य यल्लक्षणं तस्येत्यर्थः । व्यभिचारित्वादिति । व्यभिचारस्य चायमेव निर्देशो लिङ्गम् ॥