अग्राद्यत्

4-4-116 अग्रात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि

Sampurna sutra

Up

index: 4.4.116 sutra: अग्राद्यत्


'तत्र भवे' (इति) अग्रात् छन्दसि संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.116 sutra: अग्राद्यत्


'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'अग्र'शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.116 sutra: अग्राद्यत्


अग्रशब्दात् यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अग्रे भवमग्र्यम्। किमर्थम् इदं यावता सामान्येन यद् विहित एव? घच्छौ च 4.4.117 इति वक्ष्यति ताभ्यां बाधा मा भूतिति पुनर्विधीयते।

Siddhanta Kaumudi

Up

index: 4.4.116 sutra: अग्राद्यत्


अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.116 sutra: अग्राद्यत्


सप्तमीसमर्थात् 'अग्र'शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । अग्रे भवः अग्र्यः ।

यथा - यजुर्वेदे 16.30 (इत्युक्ते रुद्रपाठे नमकम्) इत्यत्र - 'नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमोऽग्र्याय च प्रथमाय च' इति प्रयोगः दृश्यते ।

ज्ञातव्यम् - वस्तुतः अत्र 'यत्' प्रत्ययः अधिकाररूपेण उपस्थितः अस्त्येव । परन्तु अस्मिन् सूत्रे 'यत्'प्रत्ययस्य पुनर्विधानम् कृतमस्ति । 'अग्रिमसूत्रेण निर्दिष्टौ 'घ' तथा 'छ'प्रत्ययौ यत्-प्रत्ययं न बाधेयाताम्' - इति स्पष्टीकर्तुमत्र यत्-प्रत्ययस्य पुनर्विधानम् कृतमस्ति ।

Padamanjari

Up

index: 4.4.116 sutra: अग्राद्यत्


ठृज्रेन्द्राग्रऽ इत्यग्रशब्दो निपातितः । सामान्येनेति ।'भवे च्छन्दसि' इति । ताभ्यां बाधा मा भूदिति पुनर्विधीयत इति । एवमपि यद्ग्रहणमनर्थकम्, अग्रादित्येवास्तु, प्राकरणिको यद्भविष्यति; अथ वा ठग्राद् घच्छौ चऽ इति चकाराद्भविष्यति, ठग्रपश्चाडिडमच्ऽ इत्यस्य समुच्चयो न शक्यः, विदेशस्थत्वात् ? एवमप्यनन्तरस्य घनः समुच्चयो विज्ञायेत । योगविभागे पुनरनन्तरो घनेव स्यात्, योगविभागसामर्थ्यान्न भविष्यति । अथ कथम्'ताश्च एव चाध्यजननः' , ठेतच्छिवे विजानीहि ब्राह्मणाध्यस्य लक्षणम्ऽ इति भाषायां प्रयोगः ? छन्दोवदृषयः कुर्वन्ति ॥