तुग्राद्घन्

4-4-115 तुग्रात् घन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि

Sampurna sutra

Up

'तत्र भवे' (इति) तुग्रात् छन्दसि संज्ञायाम् घन्

Neelesh Sanskrit Brief

Up

'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'तुग्र'शब्दात् वेदेषु संज्ञायाः विषये घन्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

तुग्रशब्दाद् घन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। त्वमग्ने वृषभस्तुग्रियाणाम्। अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः॥

Siddhanta Kaumudi

Up

भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'तुग्र'शब्दस्य अनेके अर्थाः विद्यन्ते । 'अन्नम्', 'आकाशः', 'यज्ञः', 'वरिष्ठः' - एते चत्वारः अर्थाः काशिकायां दीयन्ते । अस्मात् सप्तमीसमर्थात् 'तुग्र'शब्दात् 'भवः' अस्मिन् अर्थे वेदेषु घन्-प्रत्ययः कृतः दृश्यते । तुग्रे भवः = तुग्र + घन् → तुग्र + इय [<<आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति घकारस्य इय्-आदेशः] → तुग्र् + इय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → तुग्रिय ज्ञातव्यम् - अस्य सूत्रस्य विषये कौमुदीकारः <<स्रोतसो विभाषा ड्यड्यौ>> 4.4.113 इत्यस्मात् 'विभाषा' इत्यस्य अनुवृत्तिं कृत्वा पक्षे यत्-प्रत्ययं अपि पाठयति । तुग्रे भवः = तुग्र + यत् → तुग्र्यः । उदाहरणम् - ऋग्वेदे 1.33.15 इत्यत्र - आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु । (पाठभेदेन अत्र 'तुग्रियासु' इत्यपि पाठः दृश्यते) ।

Balamanorama

Up

Padamanjari

Up

'तुरुस्तुशम्यमः सार्वधातुके' इत्यत औणादिको रन् गुडागमः ॥