4-1-94 गोत्रात् यूनि अस्त्रियाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
युनि गोत्रात् प्रत्ययः ; अस्त्रियाम्
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तशब्दात् एव प्रत्ययः विधीयते । परन्तु, स्त्रीवाचि यत् अपत्यम्, तस्य विषये युवसंज्ञायाः अभावात् एतादृशः प्रत्ययः न भवति ।
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
अयमपि नियमः। यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवति, न परमप्रकृत्यनन्तरयुवभ्यः। गार्ग्यस्य अपत्यं युवा गार्ग्यायणः। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः। औपगविः। नाडायनिः। अस्त्रियाम् इति किम्? दाक्षी। प्लाक्षी। किं पुनरत्र प्रतिषिध्यते? यदि नियमः, स्त्रियामनियमः प्राप्नोति। अथ युवप्रत्ययः, स्त्रिया गोत्रप्रत्ययेन अभिधानं न प्राप्नोति गोरसंज्ञायाः युवसंज्ञया बाधितत्वात्। तस्माद् योगविभागः कर्तव्यः। गोत्राद् यूनि प्रत्ययो भवति। ततोऽस्त्रियाम्। यूनि यदुक्तं तत् स्त्रियां न भवति। युवसंज्ञा एव प्रतिषिध्यते, तेन स्त्री गोत्रप्रत्ययेन अभिधास्यते।
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
'युवा' इति अपत्याधिकारविशिष्टा संज्ञा । जीवति तु वंश्ये युवा 4.1.163, भ्रातरि च ज्यायसि 4.1.164, तथा वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति 4.1.165 एतैः सूत्रैः इयम् संज्ञा दीयते। पौत्रप्रभृतीनाम् यद् अपत्यम्, तस्य एतैः सूत्रैः 'युवा'संज्ञा भवितुमर्हति । यथा, शन्तनोः प्रपौत्रः अर्जुनः, तस्य (कुन्ती जीविता अस्ति चेत्) जीवति तु वंश्ये युवा 4.1.163 इत्यनेन 'युवापत्यम्' इति संज्ञा भवति । शन्तनोः युवापत्यमर्जुनः । अत्र अपत्यविशिष्ट-प्रत्ययस्य प्रयोगेण युवापत्यस्य निर्देशः कथं कर्तव्यः इति प्रश्ने प्राप्ते वर्तमानसूत्रेण तस्य उत्तरं दीयते - युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तात् एव प्रत्ययः भवति ।
एकमुदाहरणं पश्यामश्चेत् स्पष्टं भवेत् । गर्गः इति कश्चन अस्तीति चिन्तयामः । तस्य अनन्तरापत्यस्य निर्देशं कर्तुम् अत इञ् 4.1.95 इत्यनेन गर्ग-शब्दात् इञ्-प्रत्ययं कृत्वा 'गार्गि' इति प्रातिपदिकं सिद्ध्यति । गर्गस्य अपत्यं गार्गिः । अग्रे गर्गस्य पौत्रस्य (= गोत्रापत्यस्य) निर्देशं कर्तुम् एको गोत्रे 4.1.163 इत्यनेन गर्गशब्दात् गर्गादिभ्यः यञ् 4.1.105 इति यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति रूपं सिद्ध्यति । इदानीम्, 'गर्गस्य युवापत्यम्' अस्य निर्देशं कर्तुम् 'कस्मात् प्रातिपदिकात् प्रत्ययविधानं भवेत्' इति प्रश्ने प्राप्ते वर्तमानसूत्रेण अस्य उत्तरम् दीयते - युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तशब्दात् एव प्रत्ययः भवति । अतः गर्गस्य युवापत्यम् इत्यस्य निर्देशार्थम् 'गार्ग्य' शब्दादेव प्रत्ययः करणीयः, 'गर्ग' उत 'गार्गि'शब्दात् न् । यञिञोश्च 4.1.101 इत्यनेन अत्र फक्-प्रत्ययं कृत्वा गार्ग्य + फक् → गार्ग्यायण इति रूपं सिद्ध्यति ।
अस्मिन् सूत्रे 'अस्त्रियाम्' इति अपि उक्तमस्ति । अस्मिन् विषये काशिकाकारः वदति - 'योगविभागः कर्तव्यः' । इत्युक्ते, अत्र सूत्रद्वयमस्तीति चिन्तनीयम् । 'गोत्रात् युनि' इति प्रथमं सूत्रम्, तथा च 'अस्त्रियाम्' इति अपरं सूत्रम् । एतत् 'अस्त्रियाम्' इति यत् सूत्रम्, तस्य अर्थः काशिकायाम् एतादृशः उच्यते - ' यूनि यदुक्तं तत् स्त्रियां न भवति। युवसंज्ञा एव प्रतिषिध्यते' । इत्युक्ते, स्त्रीवाचि यत् अपत्यम्, तस्य विषये 'युवासंज्ञा' एव न भवति - इति अस्य आशयः । अतः 'दक्षस्य प्रपौत्री' अस्य निर्देशः 'दक्षस्य गोत्रापत्यम्' इत्यनेनैव भवति, 'दक्षस्य युवापत्यम्' इत्यनेन न । स्त्रीवाचिशब्दानां विषये वर्तमानसूत्रस्य प्रसक्तिरेव नास्ति, इत्येव 'अस्त्रियाम्' इति शब्दः निर्देशयति - इति अस्य आशयः ।
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
गोत्राद्यून्यस्त्रियाम् - गोत्राद्यून्यस्त्रियाम् । गर्गस्य गोत्रं गार्ग्यः, गर्गस्य तृतीयः । 'गर्गादिभ्यः' इति गोत्रे यञ् । गाग्र्यस्य तृतीयः सगर्गस्य पञ्चमो युवापत्यं, तस्मिन्बुबोधयिषिते गाग्र्यशब्दात् गोत्रप्रत्ययान्तात्यञिञोश्चे॑ति फकि 'गाग्र्यायण' इति रूपमिष्यते । तथा षष्ठादिष्वपि युवापत्येषु 'गाग्र्यायण' इत्येवेष्यते । तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यद्यपि सुलभमेव,गर्गात्तृतीयं गाग्र्यं प्रति पञ्चमादीनामप्यपत्यत्वात्, तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि 'गार्गायण' इत्यपि स्यात् । तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाऽभावात् यञभावे इञि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि 'गार्गायण' इति स्यात् । गोत्रपत्ययान्तादेव यूनि प्रत्यया॑ इति नियमः क्रियते — गोत्राद्यूनी॑ति । तदाह — यून्यपत्ये गोत्रप्रत्ययान्तादेवेति । नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्ताद्युवप्रत्ययान्ताच्चेति भावः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात्, नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति तत्र विष्यर्थमेवेदं स्यात्, नतु नियमार्थमिति वाच्यं,पुत्रपौत्रादिसाधारणोऽपत्यशब्द॑ इत्येव भाष्ये सिद्धान्तितत्वादिति भावः । स्त्रियां तु न युवसंज्ञेति । इहअस्त्रिया॑मिति योगो विभज्यते । यूनीत्यनुवर्तते । उभयमपि प्रथमया विपरिणम्यते । तथाचस्त्री उक्तयुवसंज्ञिका ने॑ति फलितमिति भावः । नच स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलसाभादिति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच 'एको गोत्रे' इति नियमात्तन्निवृत्तिः संभवतीति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच सत्यपि योगविभागेस्त्रियां न युवप्रत्यय॑ इति व्याख्यायतामिति वाच्यं, गोत्रप्रत्ययेन युवत्यभिधानानापत्तेरित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गाग्र्यशब्दाद्गोत्रे यञन्तात्फकि 'गाग्र्यायण' इति रूपमित्यर्थः । स्त्रियां युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति — स्त्रियामिति । पञ्चमादियुवतीनां युवसंज्ञानिरहेण गोत्रत्वात् । 'एको गोत्रे' इति नियमाद्गार्गीत्येव भवति, नतु गाग्र्यायणीति रूपमित्यर्थः ।स्त्रीभिन्ने यूनि गोत्रादेवे॑त्यर्थाश्रयणे तु युवसंज्ञया गोत्रसंज्ञाया बाधात् 'एको गोत्रे' इत्यस्याऽप्रवृत्तेः प्रत्ययमाला स्यादिति भावः ।
index: 4.1.94 sutra: गोत्राद्यून्यस्त्रियाम्
अत्राप्यनारभ्यमाणेऽस्मिन्योगे उत्पादयितर्यपत्ययुक्ते गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादसति पूर्वसूत्रव्यापारे चतुर्थे तृतीयात्पञ्चमे चतुर्थात्षष्ठे पञ्चमादौ यूनि तृतीयादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादितीष्ट्ंअ न सिध्यति । सर्वेषु त्वपत्ययुक्तेषु पञ्चमे यूनि पूर्वेभ्यश्चतुर्भ्यः प्रत्ययः प्राप्नोति । तत्र यदा तृतीयातदा गार्ग्यायण इतीष्ट्ंअ तावत्सिध्यति, अनिष्टमपि प्राप्नोति; प्रकृत्यन्तरेभ्योऽपि प्रत्ययप्रसङ्गादित्यत इदमारभ्यते । अत्रापि यदि पूर्वः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्यात्, नियमार्थं वा ? यदि युवशब्देनैकमपत्यमुच्यते, तत एकस्मिन्यूनि गोत्रादगोत्राच्च प्राप्त्यभावात् चतुर्थेन व्यवहिते पञ्चमादौ यूनि गोत्राद्विध्यर्थं भवति । अथ चतुर्थप्रभृत्यपत्यसमुदायो युवशब्देनोच्यते, ततो गोत्राच्चतुर्थे चतुर्थादगोत्रात्पञ्चम इति गोत्रादगोत्राच्च युवसमुदाये प्रत्ययप्रसङ्गे गोत्रादेवेति नियमार्थं भवति । तत्र विधौ गर्ग्यायण इतीष्ट्ंअ सिध्यति, प्रत्ययमालाप्रसङ्गदोषः स्यादेव; तत्पितृवचनात्प्राप्तस्य प्रत्ययस्यानिषिद्धत्वात् । नियमे चतुर्थादेः प्राप्तस्य प्रत्ययस्य प्रतिषेधोऽयं सम्पद्यते - यदि चतुर्थादेः स्याद् युवसमुदाये गोत्रादपि प्रत्ययः कृतः स्यादिति, ततश्च नानिष्टप्रसङ्गः; किन्तु पञ्चमादौ यूनि गोत्रादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादिति पञ्चमस्य वाक्येनाभिधानंस्याद् - गार्ग्यायणस्यापत्यमिति । षष्ठस्य तु वाक्येनापि न सिद्ध्यति, न हि तत्पितृवचनोऽपत्याप्रत्ययान्तः शब्दोऽस्ति, येन विगृह्यएत । तदेवमत्रापि द्वितीयः पक्ष आश्रीयते, नियमश्च, तदाह - अयमपि नियम इति । गोत्रादेवेति । यून्येवेत्येष विपरीतं नियमो न भवति; ठेको गोत्रेऽ इति नियमाद्यौउनोऽन्यत्र गोत्रप्रत्ययस्य प्रसङ्गाभावात् । न परमप्रकृत्यनन्तरयुवभ्य इति । अन्यथा प्रयोगभेदेन तेभ्योऽपि स्यात् । कि पुनरत्र प्रतिषिध्यत इति । सर्वस्मिन्नपि प्रतिषिध्यमाने दोषदर्शनात्प्रश्नः । तमेव दोषमाविष्करोति - यदि नियम इति । तदेकवाक्यत्वात्प्रतिषेधस्येति भावः । स्त्रियामनियमः प्राप्नोतीति । परमप्रकृत्यनन्तरयुवलक्षणाः प्रत्ययाः प्रयोगभेदेन पर्यायेण स्युरित्यर्थः । अथ युवप्रत्ययः प्रतिषिध्यत इति । अस्त्रियामिति योगविभागेन प्रसज्यप्रतेषेधाश्रयेण चेति भावः । गोत्रप्रत्ययेनाभिधानं न प्राप्नोतीति । तद्यथा'गर्गादिभ्यो यञ्' गार्गी गार्ग्यायणी, अपत्यसामान्यलक्षण एव तु प्रत्ययः स्यात् । किं कारणमनभिधानं प्राप्नोतीत्यत आह - गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादिति । यथा च बाधस्तथा तत्रैव वक्ष्यते । स्यादेतत् - युवप्रत्ययस्य स्त्रियां लुक्करिष्यते, कथम् ?'यूनि लुक्' इत्यस्यानन्तरं स्त्रियां चेति वक्ष्यामि, यूनि लुगित्येव,'प्राग्दीव्यतः' इत्येतन्निवृतम् । यद्वा'वतण्डाच्च, लुक् स्त्रियाम्, यूनि च' इति वक्ष्यामि, लुक् स्त्रियामित्येव, ततश्च गार्ग्यशब्दादुत्पन्नस्य फको लुकि कृते लुप्तस्याप्यर्थं प्रकृतिरेवाहेति यञन्तात्स्त्रियां वर्तमानान्ङीष्ष्फौ भविष्यत इति ? एवमप्यौपगवशब्दादत इञो लुकि कृते, अनुपसर्जनाधिकारादण्योऽनुपसर्जनमित्युच्यमान ईकारो न प्राप्नोति; अणर्थस्याप्रधानत्वात्, यूनि संक्रान्तत्वात् । मा भूदेवमण्योऽनुपसर्जनमिति, अणन्तादनुपसर्जनादित्येवं भविष्यति ? नैवं शक्यम्; इह हि दोषः स्याद् - आपिशलिना प्रोक्तं व्याकरणम्, ठिञश्चऽ इत्यण्, तदधीते आपिशला ब्राह्मणी,'तदधीते' इत्यणः प्रोक्ताल्लुकि अणन्तस्याध्येत्र्यां प्रधानस्त्रियां संक्रान्तत्वान्ङीप्प्राप्नोति, तस्मादण्योऽनुपसर्जनमित्येवाश्रयणीयम्, स्त्रियां योऽण्विहित इति वा । यथा च सत्यौपगवीतीकारो न प्राप्नोति । यद्यप्यत्र प्रत्ययलक्षणेन इञ उपसङ्ख्यानमितीकारः स्यात्, इह तु ग्लुचुकायनेरपत्यमौत्सर्गिकस्याणो लुकि ङीन्न प्राप्नोति, ठितो मनुष्यजातेःऽ इति ङीष् भविष्यति । इह तर्हि यस्कस्यापत्यं शिवाद्यण् यास्कः, तस्यापत्यं स्त्री, ठणो द्व्यचःऽ इति फिञ्, स्त्रियां लुकि ईकारो न प्राप्नोति ? न ह्यत्र लुप्तः प्रत्यय ईकारस्य निमितम्, यश्च श्रूयते न स स्त्रियां विहित उपसर्जनं च । तर्हि का गतिः ? इत्यत आह - तस्मादिति । युवसंज्ञैव प्रतिषिध्यत इति । ननु यूनि यदुक्तं तत्स्त्रियां न भवतिऽ इत्युक्तम्, न च युवसंज्ञा यून्यूक्ता, नहि युवसंज्ञायाः प्राग्युवसंज्ञास्ति ? चतुर्थादेर्जीवद्वंश्यस्यापत्यस्योपलक्षणं युवशब्द इत्यदोषः । अपर आह - स्वरूपपरो युवशब्दः, परिभाषा चेयम् - यत्र युवशब्दः श्रूयते तत्र ठस्त्रियाम्ऽ इत्युपतिष्ठते ।'जीवति तु वंश्ये युवा अस्त्रियाम्' इति वा व्यक्तमेव पठितव्यमिति ॥