राजश्वशुराद्यत्

4-1-137 राजश्वशुरात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) राज-श्वशुरात् यत्

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे 'राजन्'शब्दात् तथा 'श्वशुर'शब्दात यत्-प्रत्ययः भवति ।

Kashika

Up

राजन्श्वशुरशब्दाभ्यामपत्ये यत् प्रत्ययो भवति। यथाक्रममणिञोरपवादः। राजन्यः। श्वशुर्यः॥ राज्ञोऽपत्ये जातिग्रहणम्॥ राजन्यो भवति क्षत्रियजातिश्चेत्। राजनोऽन्यः॥

Siddhanta Kaumudi

Up

।<!राज्ञो जातावेवेति वाच्यम् !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

<<राज्ञो जातावेवेति वाच्यम्>> (वार्त्तिकम्)॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<राजश्वशुराद्यत्>> - राजआशुराद्यत् । राजन्शब्दाच्छ्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिञोरपवादः । राज्ञो जातावेवेति । जातिः समुदायवाच्याचेदित्यर्थः ।

Padamanjari

Up

क्षत्रियजातिश्चेदिति । प्रकृतिप्रत्ययसमुदायेन क्षत्रियजातिश्चेद् गम्येतेत्यर्थः । राजन्य इति ।'ये चाभावकर्मणोः' इति प्रकृतिभावः । राजनोऽन्य इति । स पुनर्वैश्याशूद्रयोरुत्पन्नः, ठन्ऽ इति प्रकृतिभावः ॥