संधिवेलाद्यृतुनक्षत्रेभ्योऽण्

4-3-16 सन्धिवेलाद्यृतुनक्षत्रेभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कालादित्येव। संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् प्रत्ययो भवति शैषिकः। ठञोऽपवादः। अण्ग्रहणं वृद्धाच्छस्य ४.२.११४ बाधनार्थम्। संधिवेलादिभ्यस्तावत् — सांधिवेलम्। सांध्यम्। ऋतुभ्यः — ग्रैष्मम्। शैशिरम्। नक्षत्रेभ्यः — तैषम्। पौषम्॥ संधिवेला। संध्या। अमावास्या। त्रयोदशी। चतुर्दशी। पञ्चदशी। पौर्णमासी। प्रतिपत्। संवत्सरात् फलपर्वणोः (ग०सू० १०२)। सांवत्सरं फलम्। सांवत्सरं पर्व॥

Siddhanta Kaumudi

Up

संधिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्ममासी, प्रतिपत् ॥ (गणसूत्रम् -) संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण्>> - सन्धिवेलां । कालवृत्तिभ्य इति ।कालाट्ठ]ञित्यतस्तदनुवृत्तेरिति भावः । ठञोऽपवादः । तैषमिति । तिष्ये भवादीत्यर्थः ।तिष्टपुष्ययोर्नक्षत्राऽणी॑ति । यलोपः । तिष्ये जात इत्यर्थेश्रविष्ठाफल्गुनी॑ति लुग्वक्ष्यते । सन्धिवेलादिगणं पठति — सन्धिवेलेत्यादि । संवत्सरात्फलपर्वणोरिति । गणसूत्रमिदम् ।

Padamanjari

Up

अण्ग्रहणं वृद्धाच्चस्य बाधनार्थमिति । असत्यण्ग्रहणे सन्धिवेलादिभ्यो यथाविहितमित्युच्यमाने यद्यप्यारम्भसामर्थ्यात्कालाट्ठञ् न भवति; तथापि सन्धिवेलादिषु पठितात्पौर्णमासीशब्दात्स्वात्यादेश्च वृद्धाच्छः स्याद्, वचनं तु कालाट्ठञो बाधनार्थं स्यात् । तस्मादण्ग्रहणं कर्तव्यं वृद्धाच्छस्य बाधनार्थम् । सौवातमिति । ठत सातत्यगमनेऽ सुपूर्वात् ठज्यतिभ्यां चऽ इतीण् प्रत्ययः, स्वात्या युक्तः काल इत्यण्, तस्य'लुबविशेषे' इति लुप्, ततो भवादावर्थेऽनेनाण्,'न य्वाभ्याम्' इति वृद्धिप्रतिषेधः, ऐजागमश्च । जातार्थे तु'श्रीविष्टाफल्गुनी, इति लुकि स्वातिरिति भवति । तैषमिति । अत्रापि जातार्थे पूर्ववल्लुका भवतव्यमिति भवादौ प्रत्ययः, ठ्तिष्यपुष्ययोर्नक्षत्राणि यलोपः' इति यलोपः । संवत्सरात्फलपर्वणोरिति । सांवत्सरं फलं पर्व वा, सांवत्सरिकमन्यत् ॥