4-1-10 न षट्सु अस्रादिभ्यः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् टाप्
षट्-स्वस्रादिभ्यः ङ्याप्प्रातिपदिकात् स्त्रियाम् ङीप् प्रत्ययः न
षट्संज्ञकेभ्यः शब्देभ्यः स्वस्रादिभ्यः च शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप् प्रत्ययः न भवति ।
The words that get the term 'षट्', and the words स्वसृ, तिसृ, चतसृ, ननान्दृ, दुहितृ, यातृ, मातृ do not get the ङीप्-प्रत्यय to indicate the feminine property.
षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति। यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते। पञ्च ब्राह्मण्यः। सप्त। नव। दश। स्वस्रादिभ्यः — स्वसा। दुहिता। ननान्दा। याता। माता। तिस्रः। चतस्रः।
षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात्।
प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्त्वे तस्मान्नोभौ॥
षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ अप्तृन् <{SK277}> इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातॄः । द्यौर्गोवत् । राः पुंवत् । नौर्ग्लौवत् ॥ इत्यौदन्ताः ॥
ङीप्टापौ न स्तः ॥ स्वसा तिस्रश्चतस्त्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ स्वसा । स्वसारौ ॥ माता पितृवत् । शसि मातॄ: ॥ द्यौर्गोवत् ॥ राः पुंवत् ॥ नौर्ग्लौवत् ॥
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति ।
<<न षट्स्वस्रादिभ्यः>> - ॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते — न षट् । षट् इत्यनेन षट्संज्ञका गृह्रन्त इत्याह — षट्संज्ञकेभ्य इति । ङीप्टापाविति । 'ऋन्नेभ्यः' इत्यतोङी॑विति, 'टावृचि' इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः । स्वरुआआदीन् पठतिस्वसा तिरुआ इत्यादिना । अथ 'तिसृचतसृ' इत्यनयोः पाठो न कर्तव्यः, 'न तिसृचतसृ' इति नामि दीर्घनिषेधादेव लिङ्गान्ङीबभावसिद्धेरिति 'कृन्मेजन्तः' इति सूत्रे कैयटः । न नन्दतीनि ननान्दा । 'नञि च नन्देः' इति ऋन्, वृद्धिश्च ।ननान्दा तु स्वसा पत्युः॑ इत्यमरः । दोग्धीति दुहिता ।नप्तृनेष्टृत्वहोतृपोतृभ्रातृजामातृपितृदुहितृ॑ इति दुहेस्तृच् । इट् गुणाऽभावश्च निपातितः । मान्यते पूज्यते इति माता । मान पूजायाम् । तृचि नलोपश्च । यतते इति याता । 'यतेर्वृद्धिश्च' इति ऋन्, उपधावृद्धिश्च ।भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् इत्यमरः । अतृन्नितीति । स्वसृशब्दात् सुः, 'ऋदुशनस्' इत्यनङ्, तृप्रत्ययान्तत्वाऽभावेऽपि 'अप्तृन्' इति सूत्रे स्वसृग्रहणाद्दीर्घ इति भावः । माता पितृवदिति । 'अप्तृन्' इति सूत्रे औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावा । इत्यृदन्ताः । अथ ओदन्ताः । द्यौर्गोवदिति । ओतो णित् इति णिद्वत्त्वाऽतिदेशात् । 'अचो ञ्णिति' इति वृद्धिः ।द्योदिवौ द्वे स्त्रियामभ्र॑मित्यमरः । इत्योदन्ताः । अथ ऐदन्ताः । राः पुंवदिति ।रायो हली॑त्यात्वम् । 'राः स्त्रीत्येके' इति क्षीरस्वाम्युक्तेः स्त्रीलिङ्गोऽप्ययमिति भावः । इत्यैदन्ताः । अथ ओदन्ताः नौर्ग्लौवदिति । स्त्रियां नौस्तरणिस्तरिः॑ इत्यमरः । इत्यौदन्ताः ।*इति बालमनोरमायामजन्ताः स्त्रीलिङ्गा*अथाजन्तनपुंसकलिङ्गप्रकरणम् ।****
'टाबृचि' इति पादन्ताद्विहितस्य टापोऽत्राप्रसङ्गातदनन्तरस्य ङीपोऽयं प्रतिषेध इत्याशङ्कामपनयति - यो यत इति । तत्र सर्वेभ्य एव ङीप्प्राप्नोति, टाप्तु नलोपे सत्यकारान्ततायामुपजातायां षड्भ्य एव । यो यः प्राप्त इति तु युक्तः पाठः, अन्यथा स ततो न भवतीति वाच्यं स्यात्, व्याप्तिश्च न गम्येत । पञ्च ब्राह्मण्य इति । ननु चात्र ब्राह्मणीशब्दसामानाधिकरण्यात् स्त्रीत्वावगतिः, संख्याशब्दस्तु स्वमहिम्ना भेदगणनमाह । तथा हि - पञ्चेत्युक्ते नानात्वमात्रं द्रव्यस्य गम्यते, न लिङ्गविशेषः ; तथा च लिङ्गानुशासनेषु'ष्णान्ता संख्या' इत्यलिङ्गत्वमुक्तम् । यद्येवम्, एका, द्वे, बह्व्य इत्यत्रापि प्रत्ययो न स्यात् ? संख्याशब्दत्वेन भेदगणनामात्रस्य शब्दार्थत्वात् । अथ तत्र स्त्रीत्वमपि शब्दार्थः ? पञ्चादिष्वपि स्यात् । वक्तव्यो वा विशेषः - सति तस्मिन् प्रतिषेधे नान्तरेणानुप्रयोगं पञ्चेत्यादौ स्त्रीत्वाद्यभिव्यक्तिरिति लिङ्गानुशासनेष्वलिङ्गत्वमुक्तम् ; असति तु प्रतिषेधे पञ्चादिभ्यः स्त्रीप्रत्ययो न भवति, एकादिभ्यस्तु भवतीति न शास्त्रैकशरणः प्रतिपतुमर्हति । ननु विभक्तौ परतः'त्रिचतुरोः स्त्रियाम्' तिसृचतसृभावः, तत्रं संनिपातपरिभाषयैव ङीबभावः सिद्धः, तत्किं तिसृचतसृशब्दयोः स्वस्रादिपाठेन ? ज्ञापनार्थ तु । एतज्ज्ञापयति - अनित्या संनिपातपरिभाषेति, तेन त्यदाद्यत्वे कृते टाब् भवति - या, सा, इमे, द्वे इति । ङीपोऽनन्तरस्यायं प्रतिषेधो युक्त इत्याश्रित्य चोदयति - षट्संज्ञानामिति । कस्मान्न स्यादिति । अत इति हि प्राप्नोति, असिद्धो नलोपः, तस्यासिद्धत्वान्नैतददन्तम् । परिगणितेषु कार्येषु नलोपोऽसिद्धो भवति,'नलोपः सुप्स्वर' इत्यस्य नियमार्थत्वात् । नेदं तत्र परिगण्यते ? इदमपि तत्र पिगण्यते, कथम् ? सुबिति न सप्तमीबहुवचनेन प्रत्याहारः, किं तर्हि ? यङ्श्चाबिति चापः पकारेण, ततश्च टापोऽपि प्रत्याहारेऽन्तर्भावातद्विधिरपि सुब्विधिरेवेति । तदेतदाह - प्रत्याहाराच्चापेति । न स्यादित्यनुषङ्गः, कस्मान्न स्यादिति प्रश्नः । चापा प्रत्याहारान्न स्यादिति परिहारः । इदं चाचार्यदेशीयस्य वचनम् । आचार्यसिद्धान्तं दर्शयितुमेतद् दूषयति - सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति - सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति - बहूनि चर्माण्यस्याः बहुचर्मिकेति, कथम् ? तत्र सुब्विधिरित सर्वविभक्यन्तावयवः समास आश्रितः - सुपो विधिः, सुपि विधिरिति; ततश्च यथा राजभ्यामित्यत्र'सुपि च' इति दीर्घत्वं न भवति, तथा टापि सुपि विधीयमानमित्वमपि सुब्विधिरिति तत्र वर्तव्ये नलोपस्यासिद्धत्वात्कात् पूर्वोऽकारो न भवतीतीत्वं न स्यादित्यर्थः । सिद्धान्तमाह - तस्मान्नोभाविति ।'स्त्रियाम्' इत्यर्थमात्रमपेक्ष्य तत्र यदुक्तं तन्न भवति, इत्येवं ङीप्टापावुभावपि प्रतिषेध्यावित्यर्थः । ननु च सकृत्प्रतिषेधस्य प्रवृत्तिः, स च स्वप्रवृत्तिसमये यस्य प्रसङ्गस्तमेव प्रतिषेधति, ततश्च पूर्वं ङीपि प्रतिषिद्धे नलोपे च कृते पश्चात्प्राप्नुवतष्टापः कथं प्रतिषेधः ? आत्माश्रयो हि स्यात् - स्वप्रवृत्तिमपेक्ष्य स्वप्रवृत्तिरिति । तस्मातन्त्रावृत्येकशेषाणामन्यतमाश्रयणेन द्विरस्य प्रवृत्तिः, तत्र द्वितीयया प्रवृत्या टापः प्रतिषेधः ॥