लः परस्मैपदम्
1-4-99 लः परस्मैपदम् आ कडारात् एका सञ्ज्ञा
Sampurna sutra
Up
लः परस्मैपदम्
Neelesh Sanskrit Brief
Up
लकारस्य स्थाने विहितानाम् आदेशानाम् "परस्मैपदम्" इति संज्ञा विधीयते । आवली इयम् - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, शतृ, क्वसु ।
Neelesh English Brief
Up
The आदेशा that occur in place of a लकार are known as परस्मैपद.
Kashika
Up
ल इति षष्ठ्यादेशापेक्षा। लादेशाः परस्मैपदसंज्ञा भवन्ति। तिप्, तस्, झि। सिप्, थस्, थ। मिप्, वस्, मस्। शतृक्वसू च। परस्मैपदप्रदेशाः — <<सिचि वृद्धिः परस्मैपदेषु>> ७.२.१ इत्येवमादयः॥
Siddhanta Kaumudi
Up
लादेशाः परस्मैपदसंज्ञाः स्युः ॥
Laghu Siddhanta Kaumudi
Up
लादेशाः परस्मैपदसंज्ञाः स्युः॥
Neelesh Sanskrit Detailed
Up
लकारप्रत्ययानां स्थाने भिन्नैः सूत्रैः ये आदेशाः विधीयन्ते, तेषाम् सर्वेषाम् परस्मैपदम् इति संज्ञा भवति । एतादृशाः आहत्य द्वाविंशतिः (22) आदेशाः सन्ति । परन्तु एतेभ्यः एकादशानाम् (11) आदेशानाम् <<तङानावात्मनेपदम्>> 1.4.100 इति अग्रिमसूत्रेण आत्मनेपदम् इति संज्ञा विधीयते, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्ताम् परस्मैपदसंज्ञां बाधते । अतः अन्ते केवलम् एकादशानां आदेशानाम् एव प्रकृतसूत्रेण परस्मैपदम् इति संज्ञा दीयते । एते एकादश आदेशाः एतादृशाः -
1. <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति सूत्रेण सर्वेषाम् अपि लकाराणां स्थाने विहिताः तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस् - एते नव आदेशाः परस्मैपदसंज्ञकाः भवन्ति । अनेन सूत्रेण अन्येऽपि नव आदेशाः विधीयन्ते; परन्तु तेषाम् प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण एतेषाम् आत्मनेपदम् इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते ।
2. लट्-लकारस्य स्थाने <<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 इत्यनेन विहितः शतृ इति आदेशः परस्मैपदसंज्ञकः भवति । अनेन सूत्रेण शानच् इति अन्यः आदेशः अपि विधीयते; परन्तु तस्य प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण आत्मनेपदम् इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते ।
3. लिट्-लकारस्य स्थाने <<क्वसुश्च>> 3.2.107 इत्यनेन विहितः क्वसुँ इति आदेशः अपि परस्मैपदसंज्ञकः भवति । अनेन सूत्रेण कानच् इति अन्यः आदेशः अपि विधीयते; परन्तु तस्य प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण आत्मनेपदम् इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते ।
परस्मैपदसंज्ञायाः प्रयोगः <<सिचि वृद्धिः परस्मैपदेषु>> 7.2.1 <<शेषात् कर्तरि परस्मैपदम्>> 1.3.78, <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इत्यादिषु सूत्रेषु कृतः अस्ति ।
येभ्यः धातोः केवलम् परस्मैपदस्यैव प्रत्ययाः विधीयन्ते, ते धातवः परस्मैपदिनः (प्रातिपदिकम् - परस्मैपदिन्, प्रथमैकवचनम् - परस्मैपदी) इति नाम्ना धातुपाठे परिगणिताः सन्ति । धातुपाठे विद्यमानेभ्यः ~2000 धातुभ्यः प्रायेण 1100 धातवः (इत्युक्ते, 55% धातवः) परस्मैपदिनः सन्ति ।
##Balamanorama
<<लः परस्मैपदम्>> - लः पर । 'ल' इति स्थानषष्ठी । 'आदेश' इत्यध्याहार्यम् । तदाह — लादेशा इति ।
##Padamanjari
ल इति षष्ठीति। अथ प्रथमाबहुवचने को दोषः, ठामःऽ इति लावस्थायामेव लुप्यमानस्य लिटः संज्ञा स्यात्। ततश्चेक्षामित्यत्राम्न स्याद्, न ह्यतो लिट्परः सम्भवति, शेषादेव, शेषादेव परस्मैपदमिति नियमात्? ज्ञापकात् सिद्धम्, यदयमाम्प्रत्ययवदित्याह, तज् ज्ञापयति - भवत्यात्मनेपदिभ्योऽप्यामिति। अयं तर्हि दोषो लकारस्यैव संज्ञा स्यान्न तदादेशानां तिबादीनामिति? स्थानिवद्भावातेषामपि भविष्यति।'तङनावात्मनेपदम्' इत्यत्र तर्हि'ल' इति प्रथमान्तस्य तङनाभ्यां सम्बन्धो न स्यात्, न हि तङनौ लौ भवतः। ननु चैवं विज्ञास्यतेतङनभावी लकार एव, तङनावित्यक्त इति। एवमपि गत्यन्तरे सति न क्लिष्टकल्पना युक्ता, तस्मात्'लः' इति षष्ठी। आदेशापेक्षेति। न च संज्ञापेक्षा, लकारस्य परस्मैपदमिति संज्ञा भवतीति, कुतः? सामानाधिकरण्येन प्रायेण संज्ञाविधानात्। किञ्च - जसि यो दोषः, सोऽस्मिन्नपि स्यात्; उभयत्र लकारस्य संज्ञित्वात्। तस्मादादेशापेक्षा षष्ठी। यद्येवम्, अनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां शतृक्वसोः सावकाशां बाधेत। जसि तु लकारस्य परस्मैपदसंज्ञा तिङं तु पुरुषसंज्ञेति भिन्नविषयत्वान्नास्ति बाधप्रसङ्गः। यद्यपि जस्पक्षेऽपि तिबादीनामादेशानामपि'स्थानिवदादेशः' इत्यनेन परस्मैपदसंज्ञा भविष्यति; तथापि तस्या अनाकडारीयत्वात्समावेशसिद्धिः। षष्ठीपक्षेऽपि ज्ञापकात्सिद्धम्, यदयम्'सिचि वृद्धिः परस्मैपदेषु' इत्याह, तज् ज्ञापयति - भवति तिङमप्येषा संज्ञेति। न हि सिज्विषये शतृक्वसू सम्भवतः, सामान्यापेक्षं च ज्ञापकमिति आत्मनेपदसंज्ञया पुरुषसंज्ञानां समावेशसिद्धिः, अन्यथा परस्मेपदेषु सावकाशाः पुरुषसंज्ञाः तङ्क्ष्वनवकाशयात्मनेपदसंज्ञया बाध्येरन्। अथ वा - पुरुषसंज्ञायां परस्मैपदात्मनेपदग्रहणानुवृतेरयमर्थो भवति, लटः परस्मैपदात्मनेपदसंज्ञकाः सतस्त्रीणि त्रीणि पदानि भूत्वा प्रथमादिसंज्ञा भवन्तीति तेन समावेशसिद्धिः॥