लृटः सद् वा

3-3-14 लृटः सद्वा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति क्रियायां क्रियार्थायाम् लृट् शेषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लृटः स्थाने सत्संज्ञौ शतृशानचौ वा भवतः। व्यवस्थितविभाषेयम्। तेन यथा लटः शतृशानचौ तथास्यापि भवतः। अप्रथमासमानाधिकरणादिषु नित्यम्, अन्यत्र विकल्पः। करिष्यन्तं देवदत्तं पश्य। करिष्यमाणं देवदत्तं पश्य। हे करिष्यन्। हे करिष्यमाण। अर्जयिष्यमाणो वसति। प्रथमासमानाधिकरणे विकल्पः। करिष्यन् देवदत्तः। करिष्यमाणो देवदत्तः। करिष्यति। करिष्यते॥

Siddhanta Kaumudi

Up

व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः । करिष्यद्भक्तिः । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमासमानाधिकरणेऽपि क्वचित् । करिष्यतीति करिष्यन् ॥

Laghu Siddhanta Kaumudi

Up

व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः सम्बोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लृटः सद् वा>> - लृटः सद्वा । लृटः शतृशानचौ वा स्त इत्यर्थः । व्यवस्थितेति । व्याख्यानादिति भावः । नित्यमिति । तेन तिङां निवृत्तिः । अप्रथमासामानाधिकरण्ये उदाहरति — करिष्यन्तमिति । प्रत्ययये परत उदाहरति — कारिष्यत इति । उत्तपदे उदाहरति — करिष्यद्भक्तिरिति । करिष्यन्ती भक्तिरिति । कर्मधारयः । सम्बोधने उदाहरति — हे करिष्यन्निति ।शयिष्यमाणाभोक्ष्यन्ते यवना॑ इति लक्षणे उदाहार्यम् । हेतावुदाहरति — अर्जयिष्यन्वसतीति । प्रथमासामानाधिकरण्येऽपि क्वचिदिति । अप्रथमासामानादिकरण्याऽभावेऽपि क्वचिदित्यर्थः । कदाचिदित्यपि द्रष्टव्यम् । इदं चलृट् शेषे चे॑ति भविष्यदधिकारविहिते लृटएव प्रवर्तते इतिअनवकॢप्त्यमर्षे॑त्यत्र भाष्ये स्पष्टम् ।

Padamanjari

Up

'लृटः' इति वचनं स्थानिनिर्देशार्थम्, अन्यथा सत्संज्ञकौ प्रत्ययौ स्वतन्त्रौ स्यातां न त्वादेशौ । अप्रथमासमानाधिकरणादिष्विति । आदिशब्देन'सम्बोधने च' 'लक्षणहेत्वोः क्रियायाः' इत्यस्मिन्विषये, तथा'प्रत्ययोतरपदयोश्च' - करिष्यतोऽपत्यं कारिष्यतः, कारिष्यमाणिः, करिष्यतो भक्तिः करिष्यद्भक्तिः, करिष्यमाणभक्तिः, करिष्यन्ती भक्तिरस्य करिष्यद्भक्तिः, करिष्यमाणा भक्तिरस्य करिष्यमाणभक्तिः, करिष्यतरः, करिष्यमाणतरः, करिष्यमाणतमः, करिष्यद्रूपः, करिष्यमाणरूपः, करिष्यत्कल्पः, करिष्यमाणकल्पः । कथं'श्वो' ग्नीनाधास्यमानेनऽ इत्यनद्यतने शतृशानचौ भवतः ? उक्तोऽत्र परिहारः -'व्यत्ययो बहुलम्' इति कालव्यत्ययेन लृट् । अथ वा - उतरत्रानद्यतन इति योगविभागः,'लृटः सद्वा' इत्येव अनद्यतने यो लृट् तस्यापि सत्संज्ञकौ भवतः । केन पुनरनद्यतने लृट् भवति ? एतदेव ज्ञापयति - भवत्यनद्यतने लृडिति, यदयमनद्यतने लृटः सत्संज्ञकौ शास्ति ॥