दयायासश्च

3-1-37 दयायासः च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः आम् लिटि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<दय दानगतिरक्षणेषु>> , <<अय गतौ>> , <<आस उपवेशने>> एतेभ्यश्च लिटि परत आम् प्रत्ययो भवति। दयाञ्चक्रे। पलायाञ्चक्रे। आसाञ्चक्रे॥

Siddhanta Kaumudi

Up

दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत । अयिषीष्ट ॥

Laghu Siddhanta Kaumudi

Up

दय् अय् आस् एभ्य आम् स्याल्लिटि। अयाञ्चक्रे। अयिता। अयिष्यते। अयताम्। आयत। अयेत। अयिषीष्ट। विभाषेटः। अयिषीढ्वम्, अयिषीध्वम्। आयिष्ट। आयिढ्वम्, आयिध्वम्। आयिष्यत॥ {$ {! 4 द्युत !} दीप्तौ $} (धातुपाठे <{01.0842}>) ॥ द्योतते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दयायासश्च>> - दायायासश्च । दय अय आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुर्तते । तदाह — एभ्य आम् स्याल्लिटीति ।

Padamanjari

Up

दयायासश्च॥ दयायासः सर्वऽप्यनुदातेतः। पलायाञ्चक्रे इति। ठुपसर्गस्या यतौऽ इत्युपसर्गस्य लत्वम्॥