भीह्रीभृहुवां श्लुवच्च

3-1-39 भीह्रीभृहुवाम् श्लुवः च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः आम् लिटि अन्यतरस्याम्

Kashika

Up

index: 3.1.39 sutra: भीह्रीभृहुवां श्लुवच्च


ञिभी भये, ह्री लज्जायाम्, डुभृञ् धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आम् प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन् कार्यं भवति। किं पुनस् तत्? द्वित्वम् इत्त्वं च। बिभायाञ् चकार, विभाय। जिह्रयाञ् चकार, जिह्राय। बिभराञ् चकार, बभार। जुहवाञ् चकार, जुहाव।

Siddhanta Kaumudi

Up

index: 3.1.39 sutra: भीह्रीभृहुवां श्लुवच्च


एभ्योलिट्याम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् जुसि च <{SK2481}> इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् ।{$ {!1084 ञिभी!} भये$} । बिभेति ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.39 sutra: भीह्रीभृहुवां श्लुवच्च


एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च। जुहवाञ्चकार, जुहाव। होता। होष्यति। जुहोतु, जुहुतात्। जुहुताम्। जुह्वतु। जुहुधि। जुहवानि। अजुहोत्। अजुहुताम्॥

Balamanorama

Up

index: 3.1.39 sutra: भीह्रीभृहुवां श्लुवच्च


भीह्रीभृहुवां श्लुवच्च - भीहि । भी ह्यी भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुवर्तते । तदाह — एतेभ्य इति ।श्लुव॑दिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह — आमि श्लाविव कार्यं चेति । जुहवामनिति । आमि श्लाविव द्वित्वे गुण इति भावः । जुहावेति । जुहुवतुः । जुहविथ जुहोथ । जुहुधि । हेर्धिरिति ।हुझल्भ्यो हेर्धि॑रित्यनेनेति भावः ।जुहवानी॑त्यत्र आटः पित्त्वेन अङित्तवाद्गुणे प्राप्ते तं बाधित्वाहुश्नुवो॑रिति यणि प्राप्ते आह — आटि परत्वादिति ।हुश्नुवो॑रित्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः । लङि — अजुहोत् अजुहुतामिति सिद्धवत्कृत्यसिजभ्यस्ते॑ति जुसिहुश्नुवो॑रिति यणमाशङ्क्याह — परत्वाज्जुसि चेति गुण इति अजुहवुरिति । अजुहोः अजुहुतमजुहुत अजुहवमजुहुव अजुहुम । अहौषीदिति । सिचि वृद्धिः । अहौष्टामित्यादि । अहोष्यत् । ञि भी भये इति । अनिट् । ईदन्तः । शपः स्लौ द्वित्वादि मत्वाह — बिभेतीति ।

Padamanjari

Up

index: 3.1.39 sutra: भीह्रीभृहुवां श्लुवच्च


भीह्रीभृहुवां श्लुवच्च॥ श्लुवत्कार्यापेक्षया सूत्रे षष्ठी, सन्नियोगरिष्टत्वाच्चाम्, प्रत्ययोऽपि तेभ्य एव विज्ञायते। द्वित्वेत्वे इति।'श्लौ' इति द्विर्वचनम्,'भृञामित्' इतीत्वम्, तत्र'श्लौ' इति वर्तते।'न लुमताङ्गस्य' इति गुणप्रतिषेधस्तु न भवति, किं कारणम्?'प्रत्ययलोपे प्रत्ययलक्षणम्' इत्यस्याः प्राप्तेरयं प्रतिषेधः। श्रूयमाणत्वादामःऽ॥