2-4-80 मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः
मन्त्रविषये घस ह्वर णश वृ दह आत् वृच् कृ गमि जनि इत्येतेभ्य उत्तरस्य लेर्लुग् भवति। घस — अक्ष्॑ा॑न् पि॒तरोऽमी॑मदन्त पि॒तरः(तै०सं० १.८.५.३.)। ह्वर इति <<ह्वृ कौटिल्ये>>। मा ह्वा॑र्मि॒त्रस्य॑॑ त्वा॒ (तै०सं० १.१.४.१)। णश — धू॒र्तिः प्रण्ा॒ङ् मत्॑॑र्यस्य (ऋ० १.१८.३)। वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। सु॒रुचो॑॑ वे॒न अ॑ा॑वः (मा०सं० १३.३)। दह — मा न॒ आ ध॑॑क् (ऋ० ६.६१.१४)। आदिति आकारान्तग्रहणम्। <<प्रा पूरणे>> — आप्॒रा द्याव॑ा॑पृथि॒वी अ॒न्तरि॑॑क्ष॒म् (ऋ० १.११५.१)। वृच् — मा नो॑॑॑ अ॒स्मिन् म॑॑हाध॒ने पर॑ा॑ वर्क(ऋ०८.७५.१२)। कृ — अक्॒रन् कर्म॑ कर्म॒कृतः॑ (तै०सं० १.८.३.५)। गमि — अग्मन् (ऋ० १.१२२.७)। जनि — अज्ञत वा अस्य दन्ताः (ऐ०ब्रा० ७.१४.८)। ब्राह्मणे प्रयोगोऽयम्। मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम्॥
एभ्यो लेर्लुक् स्यान्मन्त्रे । अक्षन्नमीमदन्त हि (अक्ष॒न्नमी॑मदन्त हि) । घस्लादेशस्य गमहन - <{SK2363}> इत्युपधालोपे शासिवसि - <{SK2410}> इति षः । माह्वर्मित्रस्य (माह्व॑र्मि॒त्रस्य॑) । धूर्तिः प्रणङ्मर्त्यस्य (धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य) ।नशेर्वा - <{SK431}> इति कुत्वम् । सुरुचो वेन आवः (सु॒रुचो॑ वे॒न आ॑वः) । मा न आधक् (मा न॒ आध॑क्) । आदित्याकारान्तग्रहणम् । आ प्राद्यावापृथिवी (आ प्रा॒द्यावा॑पृथि॒वी) । परावर्ग्भारभृद्यथा (परा॒वर्ग्भार॒भृद्य॑था) । अक्रन्नुषासः (अक्र॑न्नु॒षासः॑) । त्वे रयिं जागृवांसो अनुग्मन् (त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ग्मन्) । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्भ्रन्नजनिष्ट हि षः (न ता अ॑गृभ्भ्र॒न्नज॑निष्ट॒ हि षः) ॥
मन्त्रे गसह्वरणशवृदहाद्वृचकृगमिजनिभ्यो लेः॥ च्लेरेवात्र ग्रहणमिष्यते, न लिङदीनाम्, तदर्थं'सिचः' इत्यनुवर्तयन्ति - सिचो यो लिः स्थानिभूतस्तस्येति व्याचक्षते। सिचि प्रकृते लिग्रहणम् ठादिः सिचोऽन्यतरस्याम्ऽ इत्यादिसिच्कार्यं मा भूदिति। पूर्वत्र हि मा हि दातामिति सिच्स्वरो भवत्येव। ह्वरेति विहितगुणस्यानुकरणम्, अकारश्चाग्न्तुक उच्चारणार्थः। अक्षन्निति।'लुङ्सनोर्घस्लृ' ,'गमहन्' इत्युपधालोपः,'शासिवसि' इति षत्वम्। प्राणडिति। ब्रश्चादिना षत्वे जश्त्वचत्वे। प्राणगिति पाठे'नशेर्वा' इति कुत्वम्। आप्रादिति।'प्रा पूर्तौ' आङ्पूर्वः। अज्ञतेति।'जनी प्रादुर्भावे' , अनुदातेत्। बहुवचनस्य ठात्मनेपदेष्वनतःऽ इत्यदादेशः, पूर्ववदुपधालोपः, श्चुत्वम्। ब्राह्मणे प्रयोगोऽयमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्। यथाह भगवाञ्जैमनिः -'यच्चोदकेषु मन्त्राख्या इति मन्त्रलक्षणान्तरम्, शेषे ब्राह्मणशब्दः' इति। बह्वचानां हरिश्चन्द्रब्राह्मणे हरिश्चन्द्रं प्रति वरुणस्यैतद्वाक्यम् - अज्ञत वा अस्य दन्ता इति। कथं पुनर्मन्त्रग्रहणे ब्राह्मणग्रहणं भवति? तत्राह - मन्त्रग्रहणन्त्विति। मन्त्रस्य च्छन्दोरूपत्वातएन तदुपलक्ष्यते। बाहुल्येन तु मन्त्रे दर्शनान्मन्त्राग्रहणं कृतम्॥