6-3-4 मनसः सञ्ज्ञायाम् अलुक् उत्तरपदे तृतीयायाः
मनस उत्तरस्यास्तृतीयायाः संज्ञायामलुग् भवति। मनसादत्ता। मनसागुप्ता। मनसासंगता। संज्ञायामिति किम् ? मनोदत्ता। मनोगुप्ता॥
मनसागुप्ता ॥
<<मनसः संज्ञायाम्>> - मनसः संज्ञायां । मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । मनसागुप्तेति । कस्याश्चित्संज्ञेयम् । असंज्ञायां तु-मनोगुप्ता ।