1-3-74 णिचः च धातवः आत्मनेपदम् कर्तरि कर्त्रभिप्राये क्रियाफले
index: 1.3.74 sutra: णिचश्च
कर्त्रभिप्राये क्रियाफले इति वर्तते। णिजन्तादात्मनेपदं भवति कर्त्रभिप्राये क्रियाफले। कटं कारयते। ओदनं पाचयते। कर्त्रभिप्राये इत्येव, कटं कारयति परस्य।
index: 1.3.74 sutra: णिचश्च
णिजन्तादात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रि - <{SK2312}> इति चङ् । णौ चङि - <{SK2314}> इति ह्रस्वः । द्वित्वम् । हलादिः शेषः <{SK2179}> । दीर्घो लघोः <{SK2318}> इत्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत ।{$ {!1535 चिति!} स्मृत्याम्$} । चिन्तयति । अचिचिन्तत् । चिन्तेति । पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् । चिन्त्यते इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । अत एकहल् - <{SK2260}> इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतत्वात् विशेषापेक्षमित्यपरे । अत एव (गणसूत्रम् -) आधृषाद्वा इत्यस्य न वैयर्थ्यम् ।{$ {!1536 यत्रि!} संकोचे$} । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु ।{$ {!1537 स्फुडि!} परिहासे$} । स्फुण्डयति । इदित्करणात् । स्फुण्डति । स्फुटीति पाठान्तरम् । स्फुण्टयति ।{$ {!1538 लक्ष!} दर्शनाङ्कनयोः$} ।{$ {!1539 कुद्रि!} अनृतभाषणे$} । कुन्द्रयति ।{$ {!1540 लड!} उपसेवायाम्$} । लाडयति ।{$ {!1541 मिदि!} स्नेहने$} । मिन्दयति । मिन्दति ।{$ {!1542 ओलडि!} उत्क्षेपणे$} । ओलण्डयति । ओलण्डति । ओकार इदित्येके । लण्डयति । लण्डति । उकारादिरयमित्यन्ये । उलण्डयति ।{$ {!1543 जल!} अपवारणे$} । लज इत्येके ।{$ {!1544 पीड!} अवगाहने$} । पीडयति ॥
index: 1.3.74 sutra: णिचश्च
णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले। चोरयते। चोरयामास। चोरयिता। चोर्यात्, चोरयिषीष्ट। णिश्रीति चङ्। णौ चङीति ह्रस्वः। चङीति द्वित्वम्। हलादिः शेषः। दीर्घो लघोरित्यभ्यासस्य दीर्घः। अचूचुरत्, अचूचुरत॥ {$ {! 2 कथ !} वाक्यप्रबन्धे $} ॥ अल्लोपः॥ अचः परस्मिन् पूर्वविधौ <{LSK564}> - अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत् स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति स्थानिवत्त्वान्नोपधावृद्धिः । कथयति । अग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचकथत् ॥ {$ {! 3 गण !} संख्याने $} ॥ गणयति ॥
index: 1.3.74 sutra: णिचश्च
णिचश्च - णिचश्च ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति,स्वरितञितः कत्र्रभिप्राये क्रियाफले॑ इति चानुवर्तते । प्रत्ययग्रहणपरिभाषया । णिजन्तादिति लभ्यते । तदाह — णिजन्तादित्यादिना । चोरयतीति । चोरयिष्यति । चोरयिष्यते । चोरयतु । चोरयताम् । अचोरयत् । अचोरयत । चोरयेत । आशीर्लिहि परस्मैपदे आह - चोर्यादिति ।णेरनिटी॑ति णिलोप इति भावः । आशीर्लिङि आत्मनेपदे आह - चोरयिषीष्टेति । लुङ्याह - णिश्रीत्यादि । दीर्घो लघोरिति ।सन्वल्लघुनी॑ति सन्वद्भावविषयत्वादिति भावः । चिति स्मृत्याम् । चिन्तयतीति । इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः । ननु इदित्करणं मास्तु, प्रक्रियालाघवात्चिन्त स्मृत्या॑मित्येवोच्यताम् । न च नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यं, चिन्तयति चिन्तयांचकारेत्यादौ णिचः क्ङित्त्वाऽभावादेव नलोपस्याऽप्रसक्तेः । न च णिजभावे आशीर्लिङि चिन्त्यादिति, कर्मलकारे यकि चिन्त्यते इत्यत्र नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्क्यं, चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् चिन्त्यते इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह — चिन्तेत्यादि । तेनेति । पाक्षिकत्वेनेत्यर्थः । तथा च कदाचित् चिन्त्यात् चिन्त्यते इति प्रयोगस्य सत्त्वात्तत्र नलोपनिवृत्त्यर्थमिदित्करणमिति भावः । ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् चिन्त्यते इत्यत्र णिज्विकल्पः स्यान्नतु चिन्ततीत्यादौ, शपा व्यवधानेन तत्र नलोपस्याऽप्रसक्तेरित्याशङ्क्य ज्ञापकमिदं चिन्तधातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति — चिन्तिति । चिन्तेदिति । ज्ञापकमिदं चुरादित्वसामान्यापेक्षमिति मतान्तरमाह — एतच्चेति । ज्ञापकस्य चुरादित्वसामान्यापेक्षत्वे वृद्धसंमतमाह- अत एकेति । ज्ञापकस्य चितिधातुमात्रिषयकत्वे गणधातोश्चौरादिकस्य जगणतुरित्युदाहरमानुपपत्तिः स्पष्टैवेति भावः । विशेषापेक्षमिति । चितिधातुमात्रविषमित्यर्थः । इदमेव मतं युक्तमित्याह — अत एवेति । सर्वस्यापि चुरादैर्णिज्विकल्पे सतिआ धृषाद्वा॑इति कतिपयचुराद्यन्तर्गणपठितानां णिज्विकल्पिविदिवैयथ्र्यमिति भावः । यत्रि सङ्कोचे । यन्त्रयतीति । अकारस्य उपधात्वाऽभावान्न वृद्धिः । अययन्त्रदिति । अकारस्य गुरुत्वादलघुत्वाल्लघुपरकत्वाऽभावात् सन्वद्भावाऽभावादित्त्वदीर्गौ न । एवमग्रेऽपि संयोगान्तधातूनां ज्ञेयम् । पठितुं शक्यमिति । नलोपाऽभावस्तु इदित्त्वस्य न फलं, नकारस्य उपधात्वाऽभावादेव नलोपस्याऽप्रसक्तेरिति भावः । तच्चिन्त्यमिति । यन्त्र्यादित्यणिजन्ते सत्यपि नकारस्य अनुपधात्वादेव लोपाऽप्रसक्त्या इत्त्वस्य प्रयोजनाऽभावादिति भावः । एवं 'कुद्रि अनृतभाषणे'तत्रि कुटुम्बधारणे॑ 'मत्रि गुप्तभाषणे' इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वं त्यक्तुं शक्यमित्यर्थः । लड उपसेवायां । लाडयतीति । णिचि अतुपधावृद्धिः । एवमग्रेऽपि ज्ञेयम् । अलीलडत् । पीड अवगाहने ।
index: 1.3.74 sutra: णिचश्च
अत्र कश्चिदाह-इदमात्मनेपदं चुरादिणिचो न भवति, कुतः? ज्ञापकात्। किं ज्ञापकम्? लक्षणतेः स्वरितेत्वमिति। नात्राप्राप्तभाषित मस्ति। पारायणेऽपि चुरादिणिच आत्मनेपदमुदाहृतम्-एष विधिश्चुरादिणिजन्तात्स्यादिति। कश्चन निश्चुनुते स्म-अप्राप्तवचनेऽत्र न किंचन द्दष्टम्, लक्षयतेः स्वरितेत्वमनार्षम्॥