1-3-88 अणौ अकर्मकात् चित्तवत्कर्तृकात् धातवः कर्तरि कर्तरि परस्मैपदम् णेः
णेरिति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते। अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च, तस्माद् ण्यन्तात् परस्मैपदं भवति। आस्ते देवदत्तः। आसयति देवदत्तम्। शेते देवदत्तः। शाययति देवदत्तम्। अणाविति किम्? चेतयमानं प्रयोजयति चेतयत इति केचित् प्रत्युदाहरन्ति, तदयुक्तम्। हेतुमण्णिचो विधिः, प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः। तस्मादिह चेतयतीति परस्मैपदेनैव भवितव्यम्। इदं तु प्रत्युदाहरणम् — आरोहयमाणं प्रयुङ्क्ते, आरोहयते। अकर्मकादिति किम्? कटं कुर्वाणं प्रयुङ्क्ते, कारयते। चित्तवत्कर्तृकादिति किम्? शुष्यन्ति व्रीहयः। शोषयते व्रीहीनातपः॥
ण्यान्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ॥
<<अणावकर्मकाच्चित्तवत्कर्तृकात्>> - अणावकर्मकात् । ण्यन्तादिति शेषपूरणम्, णेरित्यनुवृत्तेरिति भावः । अणौ यो दातुरकर्मकः, चित्तवत्कर्तृकश्च, तस्माण्ण्यन्तात्परस्मैपदमिति यावत् । चित्तवत्कर्तृकादिति किम् । व्रीहयः शुष्यन्ति, तान् शोषयते । अकर्मकात्किम् । कटं करोति तं प्रयुङ्क्ते ।कटं कारयति ।
अणाविति किमिति। ण्यन्तस्य प्रयोज्येन कर्मणा सकर्मकत्वमवश्यम्भावीति मन्यमानस्य प्रश्नः। चेतयमानमिति।'चिती संज्ञाने' चुरादिः। हेतुमण्णिचो विधिरिति। बुधादिसूत्रादिह णिज्ग्रहणमनुवर्तते, बुधादिभ्यश्च हेतुमत्येव णिच् सम्भवति, तस्मादिहापि तस्यैव ग्रहणमिति भावः। तत्र यथा-ठ्ब्राह्मण आनीयन्तामन्यत्रानधीयानेभ्यःऽ इत्युक्ते प्रत्यासतेर्यदध्ययनं ब्रह्मणानां सम्भवति तदधीयानेभ्य इति गम्यते, न त्वध्येत्वयमात्रमधीयानेभ्य इति, तद्वदिहापि तस्यैव गम्यते यज्जातीयस्य विधौ ग्रहणमिति। आरोहयमाणमिति।'णेरणौ' इत्यात्मनेपदं शानच् तत्रैवास्याकर्मकत्वमुपपादितम्। प्रयुङ् क्त इति पाठः। प्रयोजयतीति पाठे णेरर्थो मृग्यः॥