कर्तृकरणयोस्तृतीया

2-3-18 कर्तृकरणयोः तृतीया अनभिहिते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्तरि करणे च कारके तृतीया विभक्तिर्भवति। देवदत्तेन कृतम्। यज्ञदत्तेन भुक्तम्। करणे — दात्रेण लुनाति। परशुना छिनत्ति॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्॥ प्रकृत्याभिरूपः। प्रकृत्या दर्शनीयः। प्रायेण याज्ञिकः। प्रायेण वैयाकरणः। गार्ग्योऽस्मि गोत्रेण। समेन धावति। विषमेण धावति। द्विद्रोणेन धान्यं क्रीणाति। पञ्चकेन पशून् क्रीणाति साहस्रेणाश्वान् क्रीणाति॥

Siddhanta Kaumudi

Up

अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥<!प्रकृत्यादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ॥

Laghu Siddhanta Kaumudi

Up

अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥ इति तृतीया ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कर्तृकरणयोस्तृतीया>> - कर्तृकरणयोस्तृतीया । 'अनभिहिते' इत्यधिकारादाह-अनभिहित इति । रामेणेति । रामकर्तृकबाणकरणकहिंसाक्रियाविषयो वालीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानमिति । 'तृतीयाया' इति शेषः । उपपदविभक्तिरियम् । यथायोगं सर्वविभक्त्यपवादः । प्रकृत्या चारुरिति । संबन्धस्तृतीयार्थः । प्रकृतिः=स्वभावः, तत्संबन्धिचारुत्ववानित्यर्थः । यदा तु स्वभावेनैवाऽयमभिरूपो न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते तदाकर्तृकरणयो॑रित्येव सिद्धमिति भाष्यम् । प्रायेण याज्ञिक इति । प्रायशब्दो बहुलवाची । बहुलाचारसंबन्धियाज्ञिकत्ववानित्यर्थः । संबन्धश्च ज्ञाप्यज्ञापकभावः । बहुलेन आचारेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु इत्थंभूतलक्षणे॑ इत्येव सिद्धम् । बहुलेन आचारेण संपन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । गोत्रेण गार्ग्य इति । गोत्रमस्य गार्ग्य इत्यर्थः । अत्र प्रथमा प्राप्ता । गोत्रेण हेतुना ज्ञाप्यगार्ग्यत्ववानित्यर्थे तु इत्थभूतलक्षणे॑ इत्येव सिद्धमिति भाष्यम् । समेनैति विषमेणैतीति । क्रियाविशेषणमेतत् । समं विषमं च गमनं करोतीत्यर्थः । कर्मणि द्वितीया प्राप्ता । समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । द्विद्रोणेनेति । द्वयोर्द्रोणयोः समाहारो द्विद्रोणम् । पात्रादित्वान्न स्त्रीत्वम् । द्विद्रोणसंबन्धि धान्यमित्यर्थः । षष्ठी प्राप्ता । द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणम्, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । सुखेनेति । सुखजनकं यानं करोतीत्यर्थः । क्रियाविशेषणम् । द्वितीया प्राप्ता । इत्यादीति । नाम्नासुदीक्ष्णः॑ । नामसंबन्धिसुतीक्ष्णत्ववानित्यर्थः । नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु 'इत्थंभूतलक्षणे' इत्येव सिद्धम् । धान्येन धनवा॑नित्यत्र तु अभेदस्तृतीयार्थः । धान्याऽभिन्नधनवानित्यर्थः । वह्नित्वेन वह्निं जानामी॑त्यत्र तु प्रकारत्वं तृतीयार्थः । बह्नित्वप्रकारकबह्निज्ञानवानस्मीत्यर्थ इत्याद्यूह्यम् ।

Padamanjari

Up

कर्तृकरणयोस्तृतीया॥ प्रकृत्याभिरूप इति। क्रियाया अश्रवणात्कर्तृकरणयोरभावात्षष्ठी प्राप्नोति। प्रायेण याज्ञिक इति। प्रायशब्दो बह्वर्थः, बहवो याज्ञिका इत्यर्थः। गार्ग्योऽस्मीति। प्रथमा षष्ठी वा प्राप्नोति। समेनेति। अत्र द्वितोया प्राप्नोति। द्विद्रोणेनेति। द्वयोर्द्रोणयोः समाहारो द्विद्रोणं पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापि द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापी द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च परिमाणमस्य पञ्चकः सङ्घः, तत्र संघसंघिनोरभेदविवक्षायां पशूनित्यनेनैतत्समानाधिकरणमित्यत्रापि द्वितीयैव प्राप्नोति। साहस्रेणेति। सहस्रपरिमाणः संघः साहस्रः। सर्वमन्यत्पूर्ववत्। इत्युपसंख्यानमारभमाणस्याभिप्रायः। प्रत्याख्यानं तु - इह तावत्प्रकृत्याभिरूप इति गम्यमानापि क्रिया करणादिव्यपदेशस्य निमितम्। इह च करोतिक्रिया गम्यते, करणान्तरव्युदासाय च प्रकृतेः करणत्वं विवक्षितं स्वभावेनायमभिरूपः कृतः, न वस्त्रालङ्कारादिनेत्यर्थः। प्रायेणेत्ययमर्थः - अस्मिन् ग्रामे ये विप्राः सन्ति ते बाहुल्येन यज्ञमवीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इत्यर्थः। इह तर्हि कथं विशिष्टवेषं कंचित् द्दष्ट्वाध्यवस्यति - प्रायेणायं याज्ञिक इति? अत्राप्ययमर्थः - अस्मिस्तावद्याज्ञिकानामाचारादिबाहुल्यमुपलभ्यते, अतोऽनेनाचारादिबाहुल्येन याज्ञिकोऽयं जनैर्ज्ञायत इति। तत्र प्रतीयमानज्ञानं प्रति करणत्वम्। केचित् - प्रायेणशब्दो विबक्तिप्रतिरूपको निपातो ज्ञातमित्यस्यार्थे वर्तते इत्याहुः। द्दश्यते च प्रायेण सामग्र्यविधौ गुणानामिति, प्रायेण निष्क्रामति चक्रपाणाविति च। गात्रेणेति। अनेनाहं ज्ञाये इति ज्ञानक्रियायामस्मीति भवनक्रियायां वा गोत्रस्य करणत्वम्। समेनेति। पथो गमने करणत्वं समेन पथेत्यर्थः। द्विद्रोणेनेति। द्विद्रोणाद्यर्थे मूल्ये द्विद्रोणादिशब्दस्तस्य च क्रयं प्रति कारणत्वम्, द्विद्रोणादीनां च मूल्यम्, तेन द्विद्रोणाद्येव क्रीयते इत्यर्थभेदोऽपि नास्ति॥