द्व्यचोऽतस्तिङः

6-3-135 द्व्यचः अतः तिङः उत्तरपदे संहितायाम् ऋचि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋचीति वर्तते। द्व्यचस्तिङन्तस्यात ऋग्विषये दीर्घो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ० १०.४७.१)। वि॒द्मा श॒रस्य॑ पि॒तर॑म् (शौ०सं०१.२.१) द्व्यच इति किम्? अश्वा॒ भव॑त वा॒जिनः॑ (मा०सं० ९.६)। अत इति किम्? आ दे॒वान् व॑क्षि॒ यक्षि॑ च (ऋ० ५.२६.१)॥

Siddhanta Kaumudi

Up

मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

भवतेति । लोण्मध्यमपुरुषबहुवचनम् । वक्षि, यक्षीति । बहेर्यजेश्च लेड्, सिप् । सिब्बहुलं लेटि इत्ययं एतु विधिर्न भवति, बहुवचनात् । बहुलं च्छन्दसि इति शपो लुक्, वहेर्ढत्वम्, यजेः षत्वम्, षढोः कः सि द्वयोरपि । देवानावह यज च इत्यग्निं प्रति भरद्वाजस्य वचनम् ॥