8-2-108 तयोः य्वौ अचि संहितायाम् पदस्य पूर्वत्र असिद्धम्
तयोरिदुतोर्यकारवकारादेशौ भवतोऽचि संहितायां विषये। संहितायामित्येतत् चाधिकृतम्। इत उत्तरमाध्यायपरिसमाप्तेर्यद् वक्ष्यामः संहितायामित्येवं तद् वेदितव्यम्। अग्ना३याशा। पटा३वाशा। अग्ना३यिन्द्रम्। पटा३वुदकम्। अचीति किम्? अग्ना३इ। पटा३उ। संहितायामिति किम्? अग्ना३इ इन्द्रम्। पटा३उ उदकम्। इदुतोरसिद्धत्वात् <<इको यणचि>> ६.१.७७ इति न प्राप्नोतीत्ययमारम्भः। अथापि कथंचित् तयोः सिद्धत्वं स्यात्, एवमपि सवर्णदीर्घत्वनिवृत्त्यर्थम् ६.१.१०१ शाकलनिवृत्त्यर्थं ६.१.१२७ च वक्तव्यमेतत्। अथापि तन्निवृत्त्यर्थं यत्नान्तरमस्ति, तथापि यण्स्वरनिवृत्त्यर्थमिदमारभ्यते। यणादेशस्यासिद्धत्वाद् <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>>८.२.४ इत्येष स्वरो न भवति।
किं तु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति।
तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ॥
इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम्।
तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तावष्टमाध्यायस्य द्वितीयः पादः॥
इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न 3 याशा । पट 3 वाशा । अग्न 3 यिन्द्रम् । पट 3 वुदकम् । अचि किम् । अग्ना 3 इ वरुणौ । संहितायां किम् । अग्न 3 इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्मदीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य <{SK3657}> इत्यस्य बाधनार्थो वा ॥
तयोर्य्वावचि संहितायाम्॥ किमर्थमिदमुच्यते, न ठिको यणचिऽइत्येव सिद्धम्? अत आह - इदुतोरसिद्धत्वादिति। ननु सिद्धः प्लुतस्स्वरसन्धिषु कथं ज्ञायते?'प्लुतप्रगृह्या अचि' इति प्लुतस्य प्रकृतिभावविधानात्। यस्य हि विकारः प्राप्तः तस्य प्रकृतिभावो विधेयः; प्लुतस्य चासिद्धत्वे न तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति। अस्तु प्लुतः सिद्धः, किमायातमिदुतोः? उच्यते, प्लुतप्रकरणे यत्काय तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वादत्सिद्ध एव यणादेशः, अत आह - अथापि कथञ्चिदिति। सामान्यपेक्षं ज्ञापकमित्यस्यार्थस्य दुर्ज्ञातत्वात् कथञ्चिदित्याहः यदीदं नोच्येत, अग्ना7इ इन्द्रम, पटा6उ उदकमित्यत्र षाष्ठिकं यणादेशं वाधित्वा सवर्णदीर्घत्वं स्यात्, अग्ना6याशेत्यादौ च ठिकोऽसवर्णे शाकल्यस्यऽ इति प्रकृतिभावः स्यात्, अतस्तद्बाधनार्थमिदं वक्तव्यमेव। ननु च तन्निवृतये यत्नान्तरमस्ति, किं पुनस्तत्? ठिको यणचिऽ इत्यत्रोक्तम् - ठिकः प्लुतपूर्वस्य यणादेशो वक्तव्यम्ऽ, य इक् प्लुतपूर्वः न च प्लुतविकारः, भो6यिन्द्रं गायतीति भोः शब्दस्य छान्दसः प्लुतः, ततः परस्येकारस्य निपातत्वात्प्रकृतैभावे प्राप्ते तं बाधित्वा यणादेशः, तदेवं तस्यावश्यकर्तव्यत्वातेनैव यण् सिद्धः? अत आह - अथापीति। यण्स्वरनिवृत्यर्थमिति। यणाश्रयः स्वरो यण्स्वरः, एतदेव विवृणोति - यणादेशस्येति। उक्तमेवार्थं श्लोकाभ्यां संगृह्णाति - किन्त्विति। इको यणादेशेन किं न सिद्धं रूपम्, यतोऽयमाचार्यः इदुतोर्य्वौ विदधाति, तौ चेदुतौ स्वरसन्धिषु सिद्धौ। ममेति सूत्रकारेणैकीभूतस्य वचनम्। एवं चोदिते परिहरति - शाकलदीर्घविधौ तु निवर्त्याविति। शाकल्यस्येदं शाकलम्,'कण्वादिभ्यो गोत्रे' इत्यण्। पुनश्चोदयति - इक् च परेति। वार्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति, स च प्रकृतिभावस्येव शाकलदीर्घविध्योरप्यपवादः, ततश्च तेनैव यणा एतयोरपीदुतोः शावलदीर्घौ न भविष्यतः, नार्थ एतेन? परिहरति - यण्स्वरेति। यण्स्वरबाधनमेव हेतुः सूत्रारम्भस्येति॥ इति श्रीहरदतमिश्रविचितायां पदमञ्जर्यामष्टमाध्यायस्य द्वितीयश्चरणः॥