संहितायाम्

6-3-114 संहितायाम् उत्तरपदे

Kashika

Up

index: 6.3.114 sutra: संहितायाम्


संहितायाम् इत्ययमधिकारः। यदिति ऊर्ध्वमनुक्रमिष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। वक्ष्यति द्व्यचोऽतस् तिङः 6.3.135 इति। विद्मा हि त्वा गोपतिं शूर गोनाम्। संहितायाम् इति किम्? विद्म, हि, त्वा, गोपतिं, शूर, गोनाम्।

Siddhanta Kaumudi

Up

index: 6.3.114 sutra: संहितायाम्


अधिकारोऽयम् ॥

Balamanorama

Up

index: 6.3.114 sutra: संहितायाम्


संहितायाम् - संहितायाम् । सुगमम् ।

Padamanjari

Up

index: 6.3.114 sutra: संहितायाम्


अनन्तरैर्यौगैरतरपदे कार्यं विधीयते, उतरपदं च समासे भवति । तत्र नित्यमेव संहितया भवितव्यम् संहितैकपदे नित्येति वचनात् । अवग्रहेऽपि क्वचित्कार्यं दृश्यते, क्वचिन्न, इकः काशे अनूकाशमित्यनु - कशमिति, अष्टनः संज्ञायाम्, अष्टाबन्धुरमित्यष्टा - बन्धुरमिति । अतो न तेष्ववश्यमस्योपयोग इति । यत्रानुतरपदे कार्यं विधीयते तदुदाहरति - वक्ष्यति द्व्यचोऽतस्तिङ् इति । अत्र हि तिङ्न्तस्य समासासम्भवादुतरपद इति न सम्बध्यते । वद्मा हि त्वेति । विदेर्लट्, मस्, विदो लटो वा ॥ एकर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ 6 - 3।115 ॥ तदिह लक्षणं गृह्यत इति । तत्रैव लक्षणशब्दस्य प्रसिद्धत्वात् विष्टादिपर्युदासाच्च । दात्रादिशब्द उपमानातदाकारे चिह्रए वर्तते ॥