6-3-130 मित्रे च ऋषौ उत्तरपदे संहितायाम् विश्वस्य
मित्रे चोत्तरपद ऋषावभिधेये विश्वस्य दीर्घो भवति। विश्वामित्रो नाम ऋषिः। ऋषाविति किम्? विश्वमित्रो माणवकः॥
विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ।<!शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः !> (वार्तिकम्) ॥ श्वादन्तः इत्यादि ॥
<<मित्रे चर्षौ>> - मित्रे चर्षौ । मित्रशब्दे परे विआस्य दीर्घः स्यादृषौ वाच्ये इत्यर्थः । शुनो दन्तेति । आन्शब्दस्य दन्तादिषु परतो दीर्घ इत्यर्थः । आआदन्त इति । शुनो दन्त इति विग्रहः । आआदंष्ट्रा । षष्ठीसमासः ।दीर्घान्त एव दंष्ट्रशब्दो वार्तिके पठत इति केचित् । ह्रस्वान्त इत्यन्ये । आआदंष्ट्रः । बहुव्रीहिरयम् । आआकर्णः, आआकुन्दः, आआवराहः, आआपुच्छं, आआपदः ।आपुच्छमवनामित॑मित्यसाध्वेव ।