1-3-62 पूर्ववत् सनः धातवः आत्मनेपदम् कर्तरि
index: 1.3.62 sutra: पूर्ववत् सनः
सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत् सन्नन्तादात्मनेपदम् भवति। येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेन एव सन्नन्तादपि भवति। अनुदात्तङित आत्मनेपदम् 1.3.12 आस्ते, शेते। सन्नन्तादपि तदेव निमित्तमासिसिषते, शिशयिषते। नेर्विशः 1.3.17 निविशते, निविविक्षते। आङ उद्गमने 1.3.40 आक्रमते, आचिक्रंसते। इह न भवति, शिशत्सति, मुमूर्षति। न हि शदिम्रियतिमात्रमात्मनेपदनिमित्तम्। किं तर्हि? शिदाद्यपि, तच् च इह न अस्ति। यस्य च पूर्वत्र एव निमित्तभावः प्रतिशिध्यते, तत् सन्नन्तेश्वप्यनिमित्तमनुचिकीर्षति। पराचिकीर्षति। इह जुगुप्सते, मीमांसते इति? अनुदात्तङित इत्येव सिद्धमात्मनेप्दम्। अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति।
index: 1.3.62 sutra: पूर्ववत् सनः
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः <{SK2362}> <{SK2528}> इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य <{SK2240}> एधांचक्रे ।
index: 1.3.62 sutra: पूर्ववत् सनः
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते ॥
index: 1.3.62 sutra: पूर्ववत् सनः
पूर्ववत् सनः - पूर्ववत्सनः । पूर्वेणेव पूर्ववत् ।तेन तुल्यटमिति तृतीयान्तद्वतिः । पूर्वशब्देन सन्प्रकतिर्विवक्षिता । तदाह — सनः पूर्व इत्यादि । एदिधिषते इति । सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । 'नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतकसन्नन्तादपि आत्मनेपदम् । ननु 'शदेः शितः'म्रियतेर्लुङ्लङोश्चे॑त्यस्य ग्रहणम् ।शदे॑रित्यादिसूत्रद्वये 'पूर्ववत्सनः' इति, 'नानोर्ज्ञः' इत्यतो नेति चानुवर्त्त्य शदेर्म्रियतेश्च सन्ननतान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह — वाक्यभेदेनेति । 'शदेः शितः' म्रियतेर्लुङ्लिङोश्चे॑त्येकं वाक्यम् । शिद्भाविनः शदेरात्मनेपदं स्यात्, मृङो लुङ्लिङ्प्रकृतिभूतात्, शित्प्रकृतभूताच्चात्मनेपदं स्यान्नान्यत्रेत्यर्थः । तेन शीयते म्रियते ममारेत्यादि सिध्यति ।सनो ने॑त्यपरं वाक्यम् । शदेः, म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम् । तेन शिशत्सति, मुमूर्षति इत्यादौ नात्मनेपदमित्यर्थः ।
index: 1.3.62 sutra: पूर्ववत् सनः
पूर्ववदिति।'तेन तुल्यम्' इत्यादिना तृतीयचान्ताद्वतिः, न पञ्चम्यन्तात्; लक्षणाभावात् । यथा च ब्राह्यणेन तुल्यं वैश्यादधीत इत्युक्ते ब्राह्मणादिवद् वैश्यादधीते इति पञ्चम्यर्थो गम्यते, तथेहापि पूर्वस्मादिव सनन्तादप्यात्मनेपदमित्यर्थो लभ्यते।'तुल्यार्थैः' इति हि तृतीया सर्वविभक्त्यर्थानन्तर्भावयति। यदि सनः पूर्वो यो धातुरिति। एतेन'सनः' इति पूर्वस्यावधिनिर्देशः।, न त्वात्मनेपदापेक्षया परपञ्चमीति दर्शयति। यद्येवम्, सनन्तादात्मनेपदमिति न लभ्येत,'सनः' इत्यस्य सकृच्छ्4%अतस्यावधिनिर्देशेनोपक्षीणत्वाद्, अत आह-तद्वत्सनन्तादपीति। अवधित्वेनापि तावत्सनः श्रुतत्वात् प्रत्यासत्या तदन्तादेव विधिर्विज्ञायत इति भावः। अथैवं कस्मान्न विज्ञायते सनन्तादात्मनेपदं भवति, पूर्ववदिति श्रौतोऽन्वयः, तत्र कुतः पूर्ववदित्यपेक्षायां सन्निहितत्वात्सन एव पूर्ववदिति विज्ञास्यत इति ? एवं मन्यते-एवं विज्ञायमानेऽयमेव योगः पूर्वस्यावधिः सम्भाव्येत, यथा-ठ्पूर्वत्रासिद्धम्ऽ इत्यत्र तत एव योगात् पूर्वत्रेति। ततश्चायमर्थः स्याद्-ठनुदार्तङ्तिःऽ इत्यारभ्येतः पूर्वं ये धातवो निर्दिष्टास्तेभ्यः सनन्तेभ्यस्तद्वदेवात्मनेपदं भवतीति, ततश्चोतरो विधिः सनन्तान्न स्यात्-ठ्भुजोऽनवनेऽ,बभुक्षत इति,तस्मात्सनः पूर्ववदित्येव श्रौतोऽन्वय एष्टव्य इति। यद्ययं कार्यातिदेशः शास्त्रातिदेशो वा विज्ञायेत, तदा सन्प्रकृतौ प्रयोगान्तरे द्दष्टमित्येव निमितनिरपेक्षं कार्यं शास्त्रं वातिदिश्यमार्नीमहाप्यतिदिश्येत-शिशत्सति, मुमुर्षति; शीयते, म्रियते इत्यत्र द्दष्टत्वादिति मतेऽनयोः पक्षयोर्दोषं द्दष्ट्वा निमितातिदेशमाश्रित्याह-येन निमितेनेति। निमितस्य तुल्यत्वातद्द्वारकं यदात्मनेपदाविधेस्तुल्यत्वं तदाश्रीयते इत्यर्थः। पूर्वमिति। सनुत्पतेः प्राक् प्रयोगान्तर इत्यर्थः। पूर्वस्मादिति युक्तः पाठः, तथा च सनन्तादपीति सङ्गच्छते। यद्यपि प्रकृतिगतं ङ्त्वाइदिकं सनन्ते धातौ वचनशतेनापि प्रापयितुमशक्यम् निमितं भवतीत्यतिदेशार्थः, तावता च निमितातिदेशवाचोयुक्तिः। आसिसिषत इति । इटि कृते ठजादेर्द्वितीयस्यऽ इति सिशब्दस्य द्विर्वचनम्। निविविक्षत इति 'हलन्ताच्च' इति सनः कित्वम्, व्रश्चादिषत्वम्,'षढोः कः सि' । आचिक्रंसत इति । आङ् आत्मनेपदनिमितत्वात्'स्नुक्रमोः' इतीड् नैव भवति। निमितातिदेशाश्रयणस्य फलमाह-इहेति। कारणमाह-न हीति । शिदाद्यपीति। शिद्भावित्वादिकमपीत्यर्थः। आदिशब्देन लुङ्लिङेर्ग्रहणम्, तच्चेह नास्ति। कृते सनि तदन्तमेव शिद्भावि, न शदिम्रियतिभ्यात्। शिशयिषत इत्यादौ तु कृतेऽपि सनि तदानीमपि ङ्त्वाइदिकं प्रकृतिगतं विद्यत इति भावः। यदि तर्हि निमितातिदेशः, अनुचिकीर्षतीत्यत्रापि प्रसङ्गः; गन्धनादेरर्थस्य ङ्त्विस्य चात्मनेपदनिमितस्य सन्यपि परस्मैपदे निमितत्वात्। कार्यातिदेशे तु न दोषः;ठनुपरभ्यां कृञःऽ इति परस्मेपदेनापवादेनात्मनेपदस्य बाधितत्वादत आह - यस्य चेति । न योग्यतामात्रेण निमितत्वम्, किं तर्हि? कुर्वद्रूपस्येति स्नुक्रमोरित्यत्र वक्ष्यत इति भावः। यदि कुर्वद्रूपं निमितम्, जुगुप्सत इत्यादौ कथम्, न ह्यत्र प्रकृतिगतमनुदातेत्वं तत्रात्मनेपदं कदाचिदपि करोति नित्यसनत्वाद् गुपादीनामत आह - इहेत्यादि। न वात्रानेनात्मनेपदम्, किं तर्हि? ठनुदातङ्तिःऽ इत्यनेनेत्यर्थः। कथं पुनः समुदायस्य जुगुप्सादेरनुदातेत्वमत आह - अवयव इति। अवयवे ह्यचारितार्थं लिङ्गं सामर्थ्यात्समुदायस्य विशेषकं भवति। यद्येवम्, गोपयति तेजयतीत्यदावपि प्रसङ्गः। अथ यं समुदायं योऽवयवो न व्यभिचरति, तत्र कृतं लिङ्गं तस्य विशेषकं भवति; णिजन्तं च व्यभिचरति, विनापि तेन जुगुप्सत इति गुपेः प्रयोगादित्युच्येत। वक्तव्यो वा विशेषः, अयमुच्यते-ठ्गुप गोपनेऽ इत्यस्य सन्विधौ ग्रहणम्, तस्माच्च नित्यं सनेव भवति, नापरः प्रत्ययः प्रत्ययः। गोपायतीत्यादिकस्तु प्रयोगः'गुपू रक्षणे' इत्यस्य, स चान्य एव। अवश्यञ्चैतदेवं विज्ञेयम्-अन्य एव सन्प्रकृतिः तस्माच्च सनेव भवतीति; अन्यथा निन्दाया अन्यत्र यथा णिज् भवति तथा लङदिरपि स्यात्। एवं तिजिप्रभृतयोऽपि, क्षमाद्यर्थे यत्र सन्निष्यते तत्रानुदातेतो नित्यसनन्ताश्च; क्षमादिभ्योऽन्यत्र तु तत्र णिजिष्यते तत्राननुबन्धका एव चुरादौ पठितव्याः॥